कृत्रिमबुद्धिमत्तायाः युगे युवानः सज्जीकर्तव्याः, भारतं वैश्विकमहाशक्तित्वेन निर्मातव्यम् - मोदी
वडोदरा, ०८ सेप्टेम्बरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी मङ्गलवासरे अवदत् यत् यदि भारतं कृत्रिमबुद्धिमत्तायाः क्षेत्रे विश्वस्य पुरतः महाशक्तित्वेन प्रतिष्ठितं भवितुम् इच्छति तर्हि देशेन तदर्थं सुदृढं पारिस्थितिकीतन्त्रम् निर्मातव्यम्। सः अवदत
प्रधानमंत्री नरेन्द्र मोदी मंगलवार को वडोदरा में ‘नमो फॉर विकसित भारत’ कार्यक्रम को संबोधित करते हुए


वडोदरा, ०८ सेप्टेम्बरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी मङ्गलवासरे अवदत् यत् यदि भारतं कृत्रिमबुद्धिमत्तायाः क्षेत्रे विश्वस्य पुरतः महाशक्तित्वेन प्रतिष्ठितं भवितुम् इच्छति तर्हि देशेन तदर्थं सुदृढं पारिस्थितिकीतन्त्रम् निर्मातव्यम्। सः अवदत् यत् कृत्रिमबुद्धिमत्तायां निपुणानां यूनाम् आवश्यकता केवलं सूचना-प्रौद्योगिकीक्षेत्रे एव सीमिता नास्ति, अपितु कृषिः, स्वास्थ्यं, विनिर्माणं, रोबोटिक्स् इत्यादिषु सर्वेषु क्षेत्रेषु कृत्रिमबुद्धिमत्ता नूतनान् समाधानान् रोजगारावसरान् च सृजितुं शक्नोति। युवानः कृत्रिमबुद्धिमत्तायै सज्जीकर्तुं सर्वकारः बृहदभियानम् आरब्धुं गच्छति इति सः अवदत्।

‘नमो फॉर विकसित भारत’ इति कार्यक्रमं सम्बोधयन् प्रधानमन्त्री अवदत् यत् भारतस्य युवा विशेषकौशलं प्राप्य तस्य उपयोगं कृत्रिमबुद्धिमत्तया सह संयोज्य नूतनान् प्रौद्योगिकीसमाधानान् विकसितुं शक्नोति। कश्चित् युवा कृषिक्षेत्राय कृत्रिमबुद्धिमत्ताम् आधृतं समाधानं निर्मातुं शक्नोति, स्वास्थ्यक्षेत्रे नूतनां प्रौद्योगिकीम् विकसितुं शक्नोति, विनिर्माणस्य उत्पादकता वर्धयितुं शक्नोति अथवा स्वकीयं रोबोटिक्स-नवोद्य मसंस्थां प्रारब्धुं शक्नोति। अतः भारतस्य विश्वस्य च उद्योगानाम् आवश्यकताः अवगत्य कृत्रिमबुद्धिमत्तायाः उपयोगं कर्तुं समर्थान् युवानः सज्जीकर्तुं आवश्यकम् अस्ति।

मोदी अवदत् यत् विश्वं द्रुतगत्या परिवर्तते तथा वैश्विकाभिः आवश्यकताभिः सह शिक्षायाः अधिगमस्य च पद्धतयः अपि परिवर्तन्ते। पूर्वं केवलं उपाधेः महत्त्वे बलं दीयते स्म, अधुना कौशलस्य महत्त्वमपि तावत् एव वर्धितम् अस्ति। यूनां कौशलं निरन्तरं उन्नेतुं आवश्यकम् अस्ति। एतदेव उद्दिश्य सर्वकारः शिक्षानीतौ तथा शिक्षण-प्रशिक्षणसंस्थासु परिवर्तनं करोति। सः अवदत् यत् निर्धन-मध्यमवर्गीय-परिवाराणां परिश्रमेण अर्जितं धनं संरक्षितुं सर्वकारः छात्रेभ्यः देशस्य श्रेष्ठशिक्षकैः निःशुल्कम् अन्तर्जाल-प्रशिक्षणं प्रदातुं दिशि अपि अग्रे गच्छति।

प्रधानमन्त्री अवदत् यत् विकसितभारताय एतादृशी सम्पर्कव्यवस्था आवश्यकी अस्ति या सुगमा भवनेन सह कालस्य आवश्यकतानुसारं द्रुतापि भवेत्। सः अवदत् यत् वडोदरा गतिशक्ति-विश्वविद्यालयस्य नगरम् अस्ति तथा अद्य अत्र समर्पितमालवाहकमार्गस्य अन्तिमाः श्रृंखलाया: अपि संयोजिताः सन्ति। तेन सह देशे २८०० किलोमीटर्-तः अधिकदीर्घस्य समर्पितमालवाहकमार्गस्य कार्यं पूर्णं जातम्, यत् एकविंशतितमशताब्द्याः भारतस्य ऐतिहासिकं साफल्यम् अस्ति।

सः पूर्वसर्वकारं लक्ष्यीकृत्य अवदत् यत् समर्पितमालवाहकमार्गस्य विषये २००४ तमे वर्षे विचारः आरब्धः तथा २००६ तमे वर्षे विशेषसंस्था निर्मिता, किन्तु २०१४ तमवर्षपर्यन्तं पत्राणि एव एकस्थानात् अन्यस्थानं भ्रमन्ति स्म। व्यङ्ग्यपूर्वकं सः अवदत् यत् एतेषां पत्राणाम् अपि कश्चित् ‘समर्पितमार्गः’ न प्राप्तः। पत्राणि अव-रुद्धानि, लम्बितानि, इतस्ततः भ्रमितानि च अभवन्। मोदी अवदत् यत् २०१४ तमवर्षस्य अनन्तरं तस्य सर्वकारेण अस्य परियोजनायाः गतिः वर्धिता तथा अद्य २८०० किलोमीटर-परिमितं कार्यं पूर्णं कृतम् अस्ति।

प्रधानमन्त्री अवदत् यत् पूर्वीयः पश्चिमीयश्च समर्पितमालवाहकमार्गौ अधुना देशस्य व्यापारस्य वाणिज्यस्य च मुख्याधारौ भवतः। तयोः प्रतिदिनं ४३० तः अधिकानि मालवाहकरेलयानानि चलन्ति। पूर्वं मालवाहकरेलयानाय १०० किलोमीटर-दूरत्वं गन्तुं प्रायः सार्धषड्घण्टाः समयः आवश्यकः भवति स्म, किन्तु अधुना तदेव दूरत्वं अर्धात् अपि न्यूनसमये पूर्णं भवति। यत्र ट्रकयानेन वस्तूनां प्रेषणे सामान्यतः प्रायः त्रिंशत् होरा समयः भवति, तत्र मालवाहकमार्गेण एतत् दूरत्वं १०-१२ घण्टासु पूर्णं भवति। अनेन इन्धनस्य, समयस्य, परिवहनव्ययस्य च रक्षणेन सह पर्यावरणस्यापि लाभः जातः।

मोदी मुम्बईनगरस्य जेएनपीटी-बन्दरगाहात् वडोदरापर्यन्तं गतस्य द्विस्तरीय-कण्टेनर-मालवाहकरेलयानस्य उल्लेखं कुर्वन् अवदत् यत् एकस्मिन् एव समये २५० तः अधिकानां ट्रकयानानां समतुल्यं मालं प्रेषितम्। ट्रकव्यापार-सम्बन्धिषु प्रश्नेषु सः परिहासपूर्वकम् अवदत् यत् ‘रुष्टः फूफाजी’ पृच्छति यत् ट्रकचालकानां किं भविष्यति, किन्तु अधुना एतेभ्यः ‘फूफाजी इत्येतेभ्यः’ अपि कार्यं प्राप्तम् अस्ति।

सः अवदत् यत् मालवाहकमार्गेण सह रेलमार्गः तेष्वपि जनजातीयक्षेत्रेषु प्राप्यते, यत्र दशकेभ्यः रेलसम्पर्कः नासीत्। गुजरातस्य, मध्यप्रदेशस्य, महाराष्ट्रस्य च एतादृशानि क्षेत्राणि अपि रेलमार्गेण संयोज्यन्ते। मोदी अवदत् यत् पूर्वं बजटे एकद्वयोः रेलयानयोः घोषणा क्रियते स्म तथा वर्षपर्यन्तं तस्याः घोषणायाः प्रचारः क्रियते स्म, किन्तु अधुना देशे निरन्तरं नूतनानि रेलयानानि प्रारभ्यन्ते। अद्यतनस्य कार्यक्रमस्य अन्तर्गतं बहूनि नूतनानि रेलयानानि अपि हरितध्वजं दर्शयित्वा प्रस्थापितानि।

प्रधानमन्त्री अवदत् यत् अस्मिन् वर्षे रेलवित्तविवरणं सपादद्विलक्षकोटि-रूप्यकेभ्यः अधिकम् अस्ति, यः द्वादशवर्षेभ्यः पूर्वस्य तुलनायां बहुगुणितः अधिकः अस्ति। रेलविभागस्य आधुनिकीकरणाय क्रियमाणः अयं व्ययः सहस्रशः नूतनान् रोजगारावकाशान् अपि सृजति। सः अवदत् यत् २०१४ तमवर्षस्य अनन्तरं भारतं प्रायः पञ्चाशत्सहस्राणि आधुनिकानि रेलयानकोष्ठकानि निर्मितवान्। पूर्वसर्वकारं लक्ष्यीकृत्य सः अवदत्— “पुरातनः सर्वकारः दशवर्षेषु पञ्चाशत्सहस्राणि शौचालयानपि निर्मातुं न अशक्नोत्।”

विनिर्माणक्षेत्रस्य उल्लेखं कुर्वन् मोदी अवदत् यत् भारतम् अधुना ‘चिप्-तः शिप्-पर्यन्तम्’ विनिर्माणस्य नूतनां गाथां लिखति। देशे केवलं अन्तिमोत्पादस्य निर्माणमेव न, अपितु तस्य घटकानां सम्पूर्णस्य आपूर्तिशृङ्खलायाः च भारतदेशे विकासस्य दिशि कार्यं क्रियते। सः अवदत् यत् भारतदेशे प्रकाशवैद्युत-नमूनानां स्वदेशीयं उत्पादनं वर्धितम् अस्ति तथा अधुना २०० गिगावाट्-तः अधिका क्षमता विकसिताऽस्ति। एषैव आत्मनिर्भरता ‘प्रधानमन्त्री सूर्यगृह—निःशुल्कविद्यु-त्योजना’ इत्यस्य मार्गं प्रशस्तं कृतवती।

सः अवदत् यत् देशे अद्यावधि ५५ लक्षपरिवाराः स्वेषु गृहेषु सौरविद्यु-त्संयन्त्राणि संस्थापितवन्तः, तेषु ११ लक्षपरिवाराः गुजरातस्य सन्ति। एतेषां परिवाराणां विद्युत्-उत्पादकत्वेन परिणम-नेन उत्पादनस्य, स्थापनस्य, सेवाक्षेत्रस्य च युवानां कृते नूतनाः रोजगारावसराः उत्पन्नाः सन्ति तथा बहुसंख्यकाः नूतनाः विक्रेतारः अपि समुत्पन्नाः।

प्रधानमन्त्री अवदत् यत् सर्वकारः सौरशक्तेः, पवनशक्तेः, जलविद्युतः, परमाणुशक्तेः च सहितेषु सर्वेषु ऊर्जाक्षेत्रेषु द्रुतगत्या कार्यं करोति। भविष्यस्य आधुनिकक्षेत्राणि विद्युत्-विद्युत्पारि-स्थितिकीतन्त्रस्य उपरि निर्भराणि भविष्यन्ति। चिप्-उद्योगः, दत्तांशकेन्द्राणि, कृत्रिमबुद्धिमत्ता च इत्यादीनां क्षेत्राणां कृते विद्युत् जीवनरेखेव अस्ति। अतः कृत्रिमबुद्धिमत्तायां वैश्विकमहाशक्तित्वं प्राप्तुं भारतस्य सुदृढं पारिस्थितिकीतन्त्रं निर्मातव्यम्। तदर्थं यूरेनियमस्य तथा महत्त्वपूर्णानां दुर्लभखनिजानाम् आपूर्तिं सुनिश्चितं कर्तुं विभिन्नैः देशैः सह सन्धय: क्रियन्ते।

मोदी विपक्षमपि लक्ष्यीकृत्य अवदत्— “मृषावचनानां प्रतिध्वनिना भ्रमयन्तः जनाः सर्वत्र चतुष्पथेषु मिलिष्यन्ति, किन्तु भारतस्य युवा सत्यस्य हुंकारेण सह गच्छति।” सः अवदत् यत् देशस्य युवानः पश्यन्ति यत् सर्वकारः सौरशक्तेः, पवनशक्तेः, जलविद्युतः, परमाणुशक्तेः च सहितेषु सर्वेषु क्षेत्रेषु कियत् केन्द्रितभावेन कार्यं करोति।

सः वडोदरायाः शिक्षा-कौशल-उद्योगानां मध्ये दीर्घकालतः विद्यमानां सहभागितायाः प्रशंसां कुर्वन् अवदत् यत् एतत् नगरं १५० वर्षेभ्यः अस्याः सहभागितायाः प्रतिबिम्बं वर्तते। सः अवदत् यत् वडोदरा अधुना देशस्य प्रथमस्य ‘मेड् इन इण्डिया’ इति स्वदेशे निर्मितस्य सैन्यपरिवहनविमानस्य सी-२९५ इत्यस्य निर्माणाय अपि प्रसिद्धं भवति तथा तस्य प्रथमं उड्डयनं वडोदरायाः आकाशं दृष्टवद् अस्ति।

Hindusthan Samachar / Divya Ranjan