Enter your Email Address to subscribe to our newsletters

भोपालम्, ०८ सेप्टेम्बरमासः (हि.स.)। केन्द्रीयमन्त्रिद्वयं शिवराजसिंहचौहानः डॉ. जितेन्द्रसिंहश्च अद्य मङ्गलवासरे मध्यप्रदेशस्य विदिशास्थिते अटलविहारी-वाजपेयी-शासकीय-चिकित्सा-महाविद्यालये सम्बद्धचिकित्सालये च कीमोथेरेपी-डे-केयर-केन्द्रस्य उद्घाटनं करिष्यतः। कार्यक्रमे प्रदेशस्य उपमुख्यमन्त्री राजेन्द्रशुक्लः अपि उपस्थितः भविष्यति।
अटलविहारीवाजपेयी-चिकित्सा-महाविद्यालयस्य अधीक्षकः डॉ. अविनाश-लाघवारे उक्तवान् यत् संस्थाने कर्करोगिणां चिकित्सासुविधानां विस्तारस्य दिशि महत्त्वपूर्णस्य उपक्रमस्य अन्तर्गतं कीमोथेरेपी-दिवसोपचारकेन्द्रस्य उद्घाटनसमारोहः अपराह्णे एकवादनतः प्रारप्स्यते। उद्घाटनसमारोहे केन्द्र-राज्यस्तरीयाः जनप्रतिनिधयः, चिकित्सा-विशेषज्ञाः वरिष्ठाधिकारिणश्च उपस्थिताः भविष्यन्ति।
तेन उक्तं यत् अस्याः नूतनसुविधायाः प्रारम्भेन कर्करोगिभ्यः कीमोथेरेपी-चिकित्सायै उत्तमाः सुव्यवस्थिताः च स्वास्थ्यसेवाः उपलब्धाः भविष्यन्ति।
निर्धारितकार्यक्रमानुसारम् अतिथीनां चिकित्सामहाविद्यालये आगमनं स्वागतं च भविष्यति। ततः महाविद्यालयस्य परिषद्कक्षे चायपानेन सह समारोहस्य सज्जतायाः कार्यक्रमसम्बद्धविषयाणां च चर्चा भविष्यति। तदनन्तरम् अतिथयः महाविद्यालयात् एल.टी.-२ स्थितं उद्घाटनसमारोहस्थलं प्रति प्रस्थास्यन्ति। समारोहस्थले प्राप्ते सर्वैः अतिथिभिः दीपप्रज्वलनं सरस्वतीवन्दनं च करिष्यते। ततः अतिथीनां मञ्चे स्वागतं अभिनन्दनं च भविष्यति।
कार्यक्रमे केन्द्रीयकृषिमन्त्री शिवराज-सिंहचौहानः, केन्द्रीयमन्त्री डॉ. जितेन्द्रसिंहः तथा उपमुख्यमन्त्री राजेन्द्रशुक्लश्च सम्बोधनं करिष्यन्ति। ततः अतिथिभिः विधिवत् कीमोथेरेपी-दिवसोपचारकेन्द्रस्य उद्घाटनं करिष्यते। उद्घाटनानन्तरम् अतिथयः केन्द्रस्य भ्रमणं कृत्वा तत्र उपलब्धानां सुविधानाम् अवलोकनं करिष्यन्ति।
कर्करोगचिकित्सासुविधानां विस्तारस्य दिशि महत्त्वपूर्णं पदम्
महाविद्यालयस्य अधीक्षकः डॉ. लाघवारे उक्तवान् यत् कीमोथेरेपीकीमोथेरेपी-डे-केयर-केन्द्रस्य सञ्चालनात् कर्करोगिभ्यः चिकित्सायै समर्पिता सुविधायुक्ता च व्यवस्था उपलब्धा भविष्यति। कीमोथेरेपी-डे-केयर-पद्धत्या निर्धारित-चिकित्साप्रोटोकॉल-अनुसारं कीमोथेरेपीं प्राप्नुवद्भ्यः रोगिभ्यः उपचारसुविधा प्रदातुं शक्यते। अनेन उपचारप्रक्रियायाः समये रोगिभ्यः तेषां परिजनेभ्यश्च उत्तमसुविधा प्राप्तुं शक्यते इति अपेक्षा अस्ति।
Hindusthan Samachar / Divya Ranjan