Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०८ सेप्टेम्बरमासः (हि.स.)। अग्रिमे दीपावलीपर्वणि अन्येषु च उत्सवेषु रेलयानेषु वर्धमानां यात्रिणां सम्मर्दं दृष्ट्वा उत्तररेलविभागेन यात्रिणां सुविधायै पञ्चशतानां विशेषरेलयानानां सञ्चा-लनस्य घोषणा कृता। उत्सवकाले यात्रिणाम् अतिरिक्तयाचनायाः पूर्त्यर्थं तेषां सुगमयात्रायाः व्यवस्थापनार्थं च एतानि विशेषरेलयानानि निर्धारितसमय-सारि-ण्यनुसारं सञ्चालयिष्यन्ते।
उत्तररेलविभागस्य अनुसारं उत्सवविशेष-रेलयानेषु वाराणसी-दिल्ली, अयोध्या-कैण्ट-आनन्दविहारटर्मिनल, चण्डीगढ-पटना, फिरोजपुरकैण्ट-पटना, नवदिल्ली-कानपुरसेण्ट्रल तथा आनन्दविहार-टर्मिनल-पाटलिपुत्र इत्यादयः अनेकाः महत्त्वपूर्णमार्गाः सम्मिलिताः सन्ति।
तेषु ०४२०९/०४२१० वाराणसी-दिल्ली-वाराणसी विशेषरेलयानं पञ्चाशत् पर्यायेषु, ०४२१३/०४२१४ अयोध्याकैण्ट-आनन्द-विहारटर्मिनल विशेषरेलयानं षट्त्रिंशत् पर्यायेषु तथा ०२४५६/०२४५५ नवदिल्ली-कानपुरसेण्ट्रल विशेषरेलयानम् अष्टानवतिः पर्यायेषु सञ्चरिष्यति। तथैव ०४०१४/०४०१३ आनन्दविहारटर्मिनल-लौकाविपणं विशेषरेलयानं शतपञ्चाशत् पर्यायेषु सञ्चालयिष्यते।
अतिरिक्ततया ०४२२७/०४२२८ वाराणसी-चण्डीगढ विशेषरेलयानं षट्त्रिंशत् पर्यायेषु, ०४००८/०४००७ आनन्दविहारटर्मिनल-जोगबनी विशेषरेलयानं दश पर्यायेषु, ०४०२८/०४०२७ आनन्दविहारटर्मिनल-मुजफ्फरपुर विशेषरेलयानं दश पर्यायेषु तथा ०४०१०/०४००९ सीतामढी-दिल्ली विशेषरेलयानं द्वादश पर्यायेषु सञ्चरिष्यति।रेलविभागेन ०२४५८/०२४५७ आनन्द-विहारटर्मिनल-कानपुरसेण्ट्रल विशेषरेलयानस्य द्विसप्ततिः पर्यायाः, ०४३१४/०४३१३ योगनगरीऋषिकेश-मुजफ्फरपुर विशेषरेलयानस्य अष्टादश पर्यायाः तथा ०४०९६/०४०९५ आनन्द-विहारटर्मिनल-पाटलिपुत्र-विशेषरेलयानस्य विंशत्यधिकशतं पर्यायाः निर्धारिताः।
उत्तररेलविभागेन सूचितं यत् एतदतिरिक्तं विजयमन्दिर-आनन्दविहार तथा फिरोज-पुरकैण्ट-पटना इत्यादिषु अन्येषु मार्गेष्वपि उत्सवविशेषरेलयानानां सञ्चा-लनं भविष्यति।
Hindusthan Samachar / Divya Ranjan