Enter your Email Address to subscribe to our newsletters

कोलकाता, ०८ सितम्बरमासः (हि.स.)। पूर्वमेदिनीपुरजनपदस्य नन्दीग्राम-विधानसभासनस्य मुर्शिदाबादजनपदस्य रेजीनगर-विधानसभासनस्य च उप-निर्वाचनस्य तिथिः घोषिता अस्ति। निर्वाचनायोगस्य अनुसारं द्वयोः आसनयोः अग्रिमे षष्ठे अक्टोबरमासे मतदानं भविष्यति, नवमे अक्टोबरमासे च मतगणनानन्तरं परिणामाः घोषिताः भविष्यन्ति।
आयोगस्य अधिसूचनानुसारं नवमे सितम्बरमासे राजपत्रस्य माध्यमेन उपनिर्वाचनस्य औपचारिकी प्रक्रिया प्रारभ्यते। नामाङ्कनपत्राणि समर्पयितुं अन्तिमा तिथिः षोडश-सेप्टेम्बरमासः अस्ति। सप्तदशे सेप्टेम्बरमासे नामाङ्कनपत्राणां परीक्षा भविष्यति। अभ्यर्थिनः एकोनविंशतितमं सेप्टेम्बर-पर्यन्तं स्वनामानि प्रत्याहर्तुं शक्नुवन्ति।
२०२६ तमवर्षस्य विधानसभा-निर्वाचने नन्दीग्राम-भवानीपुरासनयोः उभयोः मुख्यमन्त्री शुभेन्दु-अधिकारी निर्वाचनम् अलडत् तथा च उभयत्र विजयं प्राप्तवान्। पश्चात् सः भवानीपुरासनं स्वस्य समीपे स्थापयन् नन्दीग्रामासनस्य परित्यागस्य घोषणाम् अकरोत्।
विधानसभा-निर्वाचने नन्दीग्रामासनात् भारतीयजनतापक्षस्य अभ्यर्थी शुभेन्दु-अधिकारी एकलक्षसप्तविंशति-सहस्र-त्रिशतैकं मतानि प्राप्तवान्। तस्य निकटतमप्रतिद्वन्द्वी तृणमूलकाङ्ग्रेस-पक्षस्य पवित्रकरः एकलक्षसप्तदशसहस्र-षट्शत्षट्त्रिंशत् मतानि प्राप्तवान्।
अपरतः मुर्शिदाबादस्य रेजीनगर-विधानसभासनात् जनताउन्नयनपक्षस्य संस्थापकः हुमायूँकबीरः विजयं प्राप्तवान्। सः जनपदस्य भरतपुर-विधानसभासनात् अपि निर्वाचनम् स्पर्धितवान् तथा च तत्रापि विजयी अभवत्। पश्चात् सः रेजी-नगरासनस्य परित्यागस्य घोषणाम् अकरोत्।
Hindusthan Samachar / Divya Ranjan