Enter your Email Address to subscribe to our newsletters

कोलकाता, ८ सेप्टेम्बरमासः (हि.स.)। दुर्गापूजायाः अव्यवहितपूर्वं पश्चिमबङ्गे पुनरेकवारं निर्वाचनसम्बद्धा गतिविधिः तीव्रा भविष्यति। निर्वाचनायोगेन नन्दीग्राम-रेजीनगरयोः विधान-सभासनयोः उपनिर्वाचनाय अक्टोबर-मासस्य षष्ठी तिथिः घोषितास्ति। उभयोः आसनयोः परिणामाः अक्टोबर-मासस्य नवम्यां तिथौ घोषिताः भविष्यन्ति। निर्वाचनतिथेः घोषणानन्तरं सर्वाधिकं ध्यानं नन्दीग्रामे केन्द्रितम् अस्ति। अस्य कारणं तस्य आसनस्य राजनैतिकमहत्त्वं मुख्यमन्त्री शुभेन्दु-अधिकारी च अस्ति। अधुना सर्वप्रमुखः प्रश्नः अस्ति यत् भाजपा नन्दीग्रामात् कम् अभ्यर्थिनं निर्वाचनक्षेत्रे प्रेषयिष्यति।
२०२६ तमस्य विधानसभानिर्वाचने शुभेन्दु-अधिकारी भवानीपुर-नन्दीग्रामयोः उभयोः आसनयोः निर्वाचनम् स्पर्धितवान् तथा च उभयत्र विजयं प्राप्तवान्। भवानीपुरे सः पूर्वमुख्यमन्त्री ममताबनर्जीम् अपराजयत्। मुख्यमन्त्रिपदं प्राप्तस्य अनन्तरं निर्वाचननियमानुसारं तेन द्वयोः आसनयोः एकम् आसनं त्यक्तव्यम् आसीत्। शुभेन्दुः नन्दीग्राम-विधान-सभासनात् त्यागपत्रं दत्तवान्, ततः अत्र उपनिर्वाचनस्य स्थितिः उत्पन्ना।
उपनिर्वाचनस्य घोषणया सह भाजपायाः सम्भाविताभ्यर्थिनं प्रति दलस्य अन्तः स्थानीय-राजनैतिकवर्तुलेषु च चर्चा तीव्रा अभवत्। नन्दीग्रामे अञ्जनभारती इत्यस्य नाम प्रमुखतया अग्रे आगच्छति। तस्य समर्थनार्थं भित्तिलेखनं कृतमिति वार्ताऽपि प्राप्ता। तदतिरिक्तं मेघनादपालस्य नाम्नोऽपि चर्चा प्रचलति। तथापि भाजपानेतृत्वेन एतयोः नाम्नोः अद्यापि कस्यापि नाम्नः आधिकारिकरूपेण पुष्टिः न कृता।
भाजपायाः सम्मुखे समस्या केवलम् अभ्यर्थिनः चयनस्य नास्ति, अपितु नन्दीग्रामे शुभेन्दु-अधिकरिणः प्रभावं २०२६ तमस्य विधानसभानिर्वाचने दलस्य प्रदर्शनं च उपनिर्वाचने अक्षुण्णं स्थापयितुमपि अस्ति। दलं पूर्वमेव सङ्केतं दत्तवद् अस्ति यत् सः उभयोः उपनिर्वाचनयोः विजयं लक्ष्यीकृत्य निर्वाचनक्षेत्रे प्रवेक्ष्यति।
सोमवासरे भाजपायाः प्रदेशकार्यालये शुभेन्दु-अधिकारी, प्रदेशभाजपाध्यक्षः शमिकभट्टाचार्यः, बङ्गालस्य प्रभारी सुनीलबंसलश्च उपस्थितौ उच्चस्तरीया सङ्गठनात्मकसभा अभवत्। सभायाः अनन्तरं शुभेन्दु-अधिकारी नन्दीग्राम-विषये महत्त्वपूर्णं कथनं कृतवान्। सः उक्तवान् यत् नन्दीग्रामस्य जनाः फलतायां भाजपायाः विजयस्य मतान्तरस्य अभिलेखं भग्नं कर्तुं वदन्ति। स्वं नन्दीग्रामस्य मतदातारं कथयन् सः उक्तवान् यत् पुनः मतदानार्थं तस्य अङ्गुल्यां मसी धारयितव्या भविष्यति।
उल्लेखनीयं यत् फलतायां सम्पन्ने पुनर्मतदाने भाजपया एकलक्षाधिक-मतान्तरैः विजयः प्राप्तः आसीत्। शुभेन्दोः एतत् वक्तव्यं नन्दीग्रामे भाजपायाः आत्मविश्वासेन सह सम्बद्धं दृश्यते।
अपरतः तृणमूलकाङ्ग्रेसपक्षस्य पक्षतः नन्दीग्रामे सम्भाविताभ्यर्थिनः विषये अद्यापि चित्रं स्पष्टं नास्ति। तथापि राजनैतिकसूत्राणाम् अनुसारं पूर्वमन्त्री अखिलगिरीं निर्वाचनक्षेत्रे प्रेषयितुं चर्चा प्रचलति। यदि एतत् भवति तर्हि नन्दीग्रामे संघर्षः पुनरेकवारं अत्यन्तं महत्त्वपूर्णः राजनैतिकः भवितुम् अर्हति।
निर्वाचनायोगस्य कार्यक्रमानुसारं उप-निर्वाचनस्य नामाङ्कनप्रक्रिया सेप्टेम्बर-मासस्य नवम्यां तिथौ प्रारप्स्यते तथा च नामाङ्कनपत्रं समर्पयितुं अन्तिमा तिथिः सेप्टेम्बरमासस्य षोडशी तिथिः अस्ति। अक्टोबरमासस्य षष्ठ्यां तिथौ मतदानं नवम्यां तिथौ च मतगणना भविष्यति। अर्थात् दुर्गापूजायाः अव्यवहितपूर्वं नन्दीग्रामे पुनरेकवारं निर्वाचनप्रतिस्पर्धा द्रष्टुं लप्स्यते।
अधुना सर्वेषां दृष्टिः भाजपायाः केन्द्रीयस्य प्रदेशस्य च नेतृत्वस्य निर्णयं प्रति अस्ति। अञ्जनभारती, मेघनादपालः अथवा कोऽपि तृतीयः अभ्यर्थी—नन्दीग्रामे शुभेन्दु-अधिकरिणा त्यक्तस्य आसनस्य पुनर्विजयस्य दायित्वं भाजपा कस्मै दास्यति, एतत् अग्रिमदिवसेषु स्पष्टं भविष्यति।
Hindusthan Samachar / Divya Ranjan