साक्षरता ज्ञानस्य, प्रगतेः, सशक्तीकरणस्य च आधारशिला : नवीन पटनायकः
भुवनेश्वरम्, 08 सितंबरमासः (हि.स.)। अन्ताराष्ट्रियसाक्षरतादिवसे मङ्गलवासरे बीजुजनतादलस्य अध्यक्षः नवीनपटनायकः साक्षरतां ज्ञानस्य, प्रगतेः, गरिमायाः सशक्तीकरणस्य च आधारशिलाम् अवर्णयत्। सः अवदत् यत् शिक्षा-अधिगमनयोः प्रक्रिया जीवनं, समाजं, विश्वं
नवीन पटनायक (फाइल फोटो)


भुवनेश्वरम्, 08 सितंबरमासः (हि.स.)।

अन्ताराष्ट्रियसाक्षरतादिवसे मङ्गलवासरे बीजुजनतादलस्य अध्यक्षः नवीनपटनायकः साक्षरतां ज्ञानस्य, प्रगतेः, गरिमायाः सशक्तीकरणस्य च आधारशिलाम् अवर्णयत्। सः अवदत् यत् शिक्षा-अधिगमनयोः प्रक्रिया जीवनं, समाजं, विश्वं च श्रेष्ठतरं कर्तुं शक्तिशाली माध्यमम् अस्ति।

सामाजिकमाध्यमे ‘एक्स’ इत्यत्र पटनायकः अवदत् यत् साक्षरता केवलं पठन-लेखनयोः पर्यन्तं सीमिता नास्ति, अपि तु अद्यतने काले अङ्कीयसाक्षरताऽपि तावदेव महत्त्वपूर्णा अस्ति। सः जनान् आहूतवान् यत् साक्षरतायाः प्रकाशः समाजस्य प्रत्येकस्मिन् वर्गे प्रसारितः भवेत्, येन प्रत्येकः जनः ज्ञानेन, कौशलेन, विवेकेन च सशक्तः भवितुं शक्नुयात्।

पटनायकः अवदत् यत् अधिगमनं व्यक्तेः आत्मसम्मानं विकासं च सुदृढं करोति तथा समाजे सकारात्मकपरिवर्तनं जनयितुं महत्त्वपूर्णां भूमिकां निर्वहति। अन्ताराष्ट्रियसाक्षरतादिवसस्य अवसरे सः सर्वान् मिलित्वा तादृशं वातावरणं निर्मातुम् आहूतवान्, यत्र प्रत्येकस्मै व्यक्तये ज्ञानं आवश्यककौशलानि च प्राप्तुं समुचितः अवसरः प्राप्येत।

-------------

Hindusthan Samachar / Dheeraj Maithani