नेपालस्य बाढपीडितेभ्यः ब्रह्माकुमारीराजयोगसेवाकेन्द्रेण एककोटिः एकलक्षरूप्यकाणि प्रदत्तानि।
काठमांडूः, 08 सितंबरमासः(हि.स.)। नेपालस्य जनप्लावनेन पीडितेभ्यः ब्रह्माकुमारीराजयोगसेवाकेन्द्रेण एककोटिः एकलक्षरूप्यकाणां आर्थिकसाहाय्यं प्रदत्तम् अस्ति। प्रभावितसमुदायानां पुनर्निर्माणाय पुनर्वासाय च एषा राशिः प्रधानमन्त्रीराहतकोषे निक्षिप्ता अस
ब्रह्माकुमारी द्वारा आर्थिक सहयोग प्रदान


काठमांडूः, 08 सितंबरमासः(हि.स.)।

नेपालस्य जनप्लावनेन पीडितेभ्यः ब्रह्माकुमारीराजयोगसेवाकेन्द्रेण एककोटिः एकलक्षरूप्यकाणां आर्थिकसाहाय्यं प्रदत्तम् अस्ति। प्रभावितसमुदायानां पुनर्निर्माणाय पुनर्वासाय च एषा राशिः प्रधानमन्त्रीराहतकोषे निक्षिप्ता अस्ति। केन्द्रस्य पक्षतः राजयोगिनी दीदी किरणेन वित्तमन्त्री डॉ. स्वर्णिमवाग्ले इत्यस्मै चेकपत्रं समर्पितवान्।

अस्मिन् मध्ये ब्रह्माकुमारीनेपालस्य पक्षतः बाढ्या प्राणत्यागं कृतवतां जनानां स्मृतौ श्रद्धाञ्जलिकार्यक्रमोऽपि आयोजितः। ललितपुरस्य सातदोबाटोस्थे वीरेन्द्र-अन्ताराष्ट्रिय-तरण-सङ्कुलस्य सभागारे आयोजिते कार्यक्रमे सहस्राधिकाः राजयोगिनः तपस्विनः प्रजापिताब्रह्माकुमार्यः ब्रह्माकुमाराश्च सम्मिलिताः।

कार्यक्रमे उपस्थितैः जनैः ‘ॐ’ इति ध्वनेः सह योग-तपस्या, मौनधारणं, दीपप्रज्वलनं च कृत्वा दिवङ्गतात्मभ्यः श्रद्धाञ्जलिः समर्पिता। तथैव शोकसन्तप्तपरिवाराणां शान्तये धैर्याय च प्रार्थना अपि कृता।

रसुवाजनपदे भोटेकोशीनद्यां जातया बाढ्या रसुवा, नुवाकोटस्य त्रिशूली-देवीघाटक्षेत्रयोः तथा धादिङ्गादिषु विभिन्नक्षेत्रेषु च जनधनस्य महती क्षतिः अभवत्।

---------------

Hindusthan Samachar / Dheeraj Maithani