गुजरातस्य वडोदरायां प्रधानमन्त्रिणा ३५,२०० कोटिरूप्यकाधिकानां विकासपरियोजनानां लोकार्पणं शिलान्यासश्च
वडोदरा, ०८ सेप्टेम्बरमासः (हि.स.)। प्रधानमन्त्रिणा नरेन्द्रमोदिना मङ्गलवासरे गुजरातस्य वडोदरायां नवसार्यां च विभिन्नेषु कार्यक्रमेषु सहभागिता कृता। प्रधानमन्त्रिणा वडोदरास्थे एम.एस. विश्वविद्यालयस्य क्रीडाङ्गणे केन्द्र-सर्वकारस्य राज्यसर्वकारस्य च
वडोदरा में प्रधानमंत्री नरेंद्र मोदी का स्वागत


वडोदरा, ०८ सेप्टेम्बरमासः (हि.स.)। प्रधानमन्त्रिणा नरेन्द्रमोदिना मङ्गलवासरे गुजरातस्य वडोदरायां नवसार्यां च विभिन्नेषु कार्यक्रमेषु सहभागिता कृता। प्रधानमन्त्रिणा वडोदरास्थे एम.एस. विश्वविद्यालयस्य क्रीडाङ्गणे केन्द्र-सर्वकारस्य राज्यसर्वकारस्य च ३५,२०० कोटिरूप्यकाधिकमूल्यानां विकास-परियोजनानां लोकार्पणं, शिलान्यासः शुभारम्भश्च कृतः।

कार्यक्रमे मुख्यमन्त्री भूपेन्द्रपटेलः, केन्द्रीयरेलमन्त्री अश्विनीवैष्णवः, गुजरातस्य उपमुख्यमन्त्री हर्षसङ्घवी इत्यादयः गणमान्याः जनाः उपस्थिताः आसन्। प्रधानमन्त्रिणः आगमने वडोदरायां बहुसंख्यकाः जेन-जी युवानः उत्साहेन तस्य स्वागतं कृतवन्तः। ‘नमो फॉर विकसित भारत’ इति कार्यक्रमाय विशेषरूपेण सज्जीकृते वाई-आकारके मञ्चे प्रधानमन्त्रिणा हस्तचालनपूर्वकं युवभिः सह मिलनं कृतम्। अस्मिन् क्रमे युवभिः मञ्चात् प्रधानमन्त्रिणे छायाचित्र-युक्तं चित्रपटलम् अपि समर्पितम्। ततः प्रधानमन्त्रिणा मोदिना प्रदेश-सर्वकारस्य ३५,२०० कोटिरूप्यकाधिक-मूल्यानां विभिन्नविकासपरियोजनानां लोकार्पणं, शिलान्यासः शुभारम्भश्च कृतः।

मालवाहक-रेलमार्गस्य महत्त्वपूर्णाः खण्डाः राष्ट्राय समर्पिताः

कार्यक्रमे प्रधानमन्त्रिणा मोदिना पश्चिम-समर्पित-मालवाहक-मार्गस्य महत्त्वपूर्णाः खण्डाः राष्ट्राय समर्पिताः। अनेन गुजरात-महाराष्ट्रयोः देशस्य अन्येषां भागानां च मध्ये मालपरिवहनस्य गतिः वर्धिष्यते इति अपेक्षा अस्ति। अस्मिन् क्रमे अन्यासां रेलपरियोजनानां शिलान्यासः नूतनानां रेलसेवानां शुभारम्भश्च अपि कृतः।

भारतीयरेलविभागस्य अन्तर्गतं ३०,७६६ कोटिरूप्यकाधिकमूल्यानां परियोजनाः कार्यक्रमे समाविष्टाः आसन्। तासु पश्चिम-समर्पित-मालवाहक-मार्गस्य त्रयः खण्डाः तथा वडोदरा-रतलामयोः मध्ये २५९ किलोमीटर-दीर्घस्य तृतीयस्य चतुर्थस्य च रेलमार्गयोः निर्माणकार्यं प्रमुखम् अस्ति।

एनएचएआई-संस्थायाः १,८४० कोटि-रूप्यकाधिकमूल्यानां परियोजनाः

राष्ट्रीयराजमार्गप्राधिकरणस्य १,८४०.५५ कोटिरूप्यकमूल्यानां परियोजनानाम् अपि लोकार्पणं शिलान्यासश्च कृतः। तासु एनएच-४८ इत्यस्य वडोदरा-सूरत-खण्डे तापी-नर्मदानद्यां सेतूनां तथा अन्यसंरचनानां निर्माणम्, कामरेज-चलथानयोः मध्ये षड्भिः पथैः युक्तस्य मार्गस्य निर्माणं तथा एनएच-५३ इत्यस्य विभिन्नेषु सङ्गमस्थलेषु स्तरविभक्त-संरचनानां निर्माणं च अन्तर्भवति। एनएच-४८ इत्यस्मिन् कण्डारीचतुष्पथस्य लुवारापाटियायां च निर्मितयोः षड्भिः पथैः युक्तयोः उड्डयनसेतूयोः अपि लोकार्पणं कृतम्।

गुजरातसर्वकारस्य २,५९७ कोटि-रूप्यकाधिकमूल्यानां परियोजनाः

वडोदरायां गुजरातसर्वकारस्य २,५९७ कोटिरूप्यकाधिकमूल्यानां विभिन्नपरियोजनानां लोकार्पणं शिलान्यासश्च अभवत्। तासु नगरविकासः, ऊर्जाविभागः एवं पेट्रोकेमिकलविभागः, गृहम्, पञ्चायतः एवं ग्रामीणविकासः, मार्गाः एवं भवनानि, पत्तनं एवं परिवहनम् तथा जलापूर्तिविभागस्य परियोजनाः सम्मिलिताः सन्ति।

नगरविकासविभागस्य अन्तर्गतं ९१६.३८ कोटिरूप्यकमूल्यानां प्रायः अष्टपरियोजनासु वडोदरा-परिवेष्टन-मार्गस्य द्वितीयचरणस्य निर्माणं तथा वडोदरा-नगरनिगमस्य नूतन-भवनस्य निर्माणं प्रमुखम् अस्ति।

महीसागरजनपदस्य कडाणाबन्धस्य जलाशये ११० मेगावाट्-क्षमतायुक्तस्य तैरत्सौरऊर्जाप्रकल्पस्य शिलान्यासः अपि कृतः। प्रधानमन्त्रिणः ग्रामीणप्रधानमन्त्री-आवासयोजनायाः अन्तर्गतं राज्ये निर्मितानां १३,८८८ आवासानां लोकार्पणम् अपि कृतम्। वडोदरायाः कार्यक्रमं सम्पन्नं कृत्वा प्रधानमन्त्रिणः नवसारीं प्रति प्रस्थानं कृतम्।

Hindusthan Samachar / Divya Ranjan