Enter your Email Address to subscribe to our newsletters


नवसारी, ०८ सेप्टेम्बरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी वडोदरा-नगरानन्तरं नवसारीनगरे राष्ट्रियराज-मार्गस्य समीपे भारतीयजनतापक्षस्य (भाजपा) आधुनिककार्यालयस्य ‘नमो कमलम्’ इत्यस्य उद्घाटनं कृतवान्। प्रधानमन्त्रिणः आगमनम् उद्दिश्य नवसारीनगरसहिते दक्षिणगुजरातप्रदेशे उत्साहपूर्णं वातावरणं दृष्टम्।
प्रधानमन्त्रिणः स्वागतार्थं पारम्परिक-वेशभूषाभिः सुसज्जिताभिः एकादशशतं महिलाभिः कलशयात्रया सह तस्य अभिनन्दनं कृतम्। तथैव प्रायः पञ्चशतं पुरुषैः विशेषडमरूवादनं कृत्वा वातावरणं शिवमयं कृतम्। इतः परं त्रिंशत् महिलाभिः ढोल-ताशावाद्ययोः तालैः सह प्रधानमन्त्रिणः स्वागतं कृतम्।
चत्वारिंशत्सहस्रवर्गपदपरिमिते क्षेत्रे आधुनिकसुविधायुक्तं ‘नमो कमलम्’
नवसारीनगरस्य नवीनं ‘नमो कमलम्’ कार्यालयं प्रायः चत्वारिंशत्सहस्र-वर्गपदपरिमिते क्षेत्रे विकसितम् अस्ति। प्रायः दशकोटि-रूप्यकाणां व्ययेन निर्मिते अस्मिन् अत्याधुनिककार्यालये विशालः सभागारः, कृत्रिमबुद्धिमत्ताधारितव्यवस्था, अतिवेगयुक्तान्तरजालसम्पर्कः तथा कार्यकर्तृणां कृते आधुनिकसुविधा-सम्पन्नाः सम्मेलनकक्षाः निर्मिताः सन्ति।
परिसरे सुरक्षार्थं त्रिस्तरीय-सुरक्षाव्यवस्था कृता अस्ति। आरक्षकाधिकारिभिः सम्पूर्णपरिसरस्य निरीक्षणं क्रियते। आगन्तुकेभ्यः पेयजलसहितं आवश्यक-सुविधानां व्यवस्था अपि कृता अस्ति।
प्रधानमन्त्रिणः कार्यक्रमस्य जनपदव्यापि प्रत्यक्षप्रसारणार्थं व्यापकडिजिटलव्यवस्था कृता। नवसारीजनपदस्य सर्वेषु ३८९ ग्रामेषु प्रायः ४,००० दृश्यपटलानि स्थापितानि सन्ति। एतेषां माध्यमेन १.१५ लक्षाधिकाः ग्रामीणाः स्वस्वग्रामेषु उपविश्य प्रधानमन्त्रिणः कार्यक्रमं द्रष्टुं श्रोतुं च शक्नुवन्ति।
प्रधानमन्त्रिणा ‘नमो कमलम्’ परिसरस्य निरीक्षणं कृतम्
उद्घाटनानन्तरं प्रधानमन्त्री नरेन्द्रमोदी ‘नमो कमलम्’ परिसरस्य भ्रमणं कृत्वा विविधसुविधानाम् निरीक्षणं कृतवान्। तेन मुख्यकार्यालयस्य, अत्याधुनिक-माध्यमकेन्द्रस्य, डिजिटलदूरभाषकेन्द्रस्य तथा आधुनिकग्रन्थालयस्य अवलोकनं कृतम्। इतः परं सांसद-विधायकानां कृते निर्मितानां विशेषकक्षाणाम् अपि निरीक्षणं कृतवान्।
प्रधानमन्त्रिणा परिसरे पण्डितदीनदयाल-सभाकक्षस्य, डॉ. श्यामाप्रसादमुखर्जी-सभाकक्षस्य तथा अटल-सभागारस्य अपि निरीक्षणं कृतम्।
Hindusthan Samachar / Divya Ranjan