Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०८ सेप्टेम्बरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी मङ्गलवासरे ‘एक्स्’-माध्यमे लिखिते सुभाषिते अवदत् यत् बुद्धिमता प्राज्ञेन च मनुष्येण सर्वेभ्यः ज्ञानशास्त्रेभ्यः सारः ग्रहीतव्यः। तेन प्रत्येकस्रोतसः मूल्यवान् ज्ञानं प्राप्य तस्य आत्मसातीकरणस्य महत्त्वे बलं प्रदत्तम्।
प्रधानमन्त्रिणा सुभाषितं लिखितम्—“‘अनुभ्यश्च महद्भ्यश्च शास्त्रेभ्यः कुशलो नरः।सर्वतः सारमादद्यात् पुष्पेभ्य इव षट्पदः॥’
अस्य भावार्थः अस्ति यत् बुद्धिमता प्राज्ञेन च मनुष्येण ज्ञानस्य प्रत्येकशाखायाः सारः ग्रहीतव्यः, सा बृहती भवतु लघ्वी वा, यथा षट्पदः अर्थात् भ्रमरः प्रत्येकस्मात् पुष्पात् मकरन्दं सङ्गृह्णाति। तथैव मनुष्येण प्रत्येकस्रोतसः सर्वाधिकं मूल्यवान् ज्ञानं अन्वेष्टव्यं तच्च आत्मसात् कर्तव्यम्।”
अयं प्रसिद्धः श्लोकः श्रीमद्भागवत-महापुराणात् उद्धृतः अस्ति। एतत् प्रसिद्धं सुभाषितम् अधेतारं भ्रमरस्य सदृशं भवितुं प्रेरयति। बुद्धिमता मनुष्येण पूर्वाग्रहं विना ज्ञानस्य सर्वेभ्यः स्रोतस्भ्यः आवश्यकं ज्ञानं सङ्ग्रहीतव्यं तत् च स्वस्य अवबोधे समन्वेतव्यम्। यथा भ्रमरः अनेकानि पुष्पाणि प्रति गत्वा तेषां मकरन्दं सङ्गृह्य मधु निर्माति, तथैव मनुष्येण विविधस्रोतसां ज्ञानं सङ्गृह्य स्वबुद्ध्या तस्य सम्यक् संश्लेषणं कर्तव्यम्।
Hindusthan Samachar / Divya Ranjan