त्रिदिवसीय-श्रीलङ्कायात्रायां राजनाथसिंहः कोलम्बोनगरम् आगतः, हार्दं स्वागतं जातम्
- श्रीलङ्कायाः त्रिदिवसीययात्रा उभयोर्देशयोः सम्बन्धान् अधिकं सुदृढान् करिष्यति नवदिल्ली, ८ सेप्टेम्बरमासः (हि.स.)। रक्षामन्त्री राजनाथसिंहः ८ सेप्टेम्बरतः १० सेप्टेम्बरपर्यन्तं श्रीलङ्कायाः आधि-कारिकयात्रायां मङ्गलवासरे कोलम्बो-नगरम् आगतः। तस्य स
कोलंबो पहुंचने पर राजनाथ सिंह का गर्मजोशी से हुआ स्वागत


- श्रीलङ्कायाः त्रिदिवसीययात्रा उभयोर्देशयोः सम्बन्धान् अधिकं सुदृढान् करिष्यति

नवदिल्ली, ८ सेप्टेम्बरमासः (हि.स.)। रक्षामन्त्री राजनाथसिंहः ८ सेप्टेम्बरतः १० सेप्टेम्बरपर्यन्तं श्रीलङ्कायाः आधि-कारिकयात्रायां मङ्गलवासरे कोलम्बो-नगरम् आगतः। तस्य स्वागतं बण्डारनायके-अन्ताराष्ट्रियविमानपत्तने उपरक्षामन्त्रिणा मेजरजनरल-अरुणजय-शेखरेण श्रीलङ्कायां भारतस्य उच्चायुक्तेन सन्तोषझावर्येण च कृतम्। श्रीलङ्कापक्षतः रक्षामन्त्रिणः हार्दं पारम्परिकं च स्वागतं कृतम्, यत् भारत-श्रीलङ्कयोः मध्यवर्तिनः निकटान् चिरस्थायिनश्च सम्बन्धान् प्रदर्शयति।

राजनाथसिंहः अद्य प्रातःकाले त्रिदिवसीय-यात्रायै नवदिल्लीतः श्रीलङ्कां प्रति प्रस्थितवान्। उच्चस्तरीयप्रतिनिधि-मण्डलस्य नेतृत्वं कुर्वन् रक्षामन्त्री श्रीलङ्कायाः वरिष्ठनेतृभिः सह अनेकविषयेषु वार्तालापं करिष्यति, येन परस्परहितकरक्षेत्रेषु परम्परागततया सुदृढाः मैत्रीपूर्णाश्च द्विपक्षीयसम्बन्धाः अधिकं सुदृढाः भवेयुः। एतेषु सुदृढा सामुद्रिकी रक्षासहभागिता च अन्तर्भवति। रक्षामन्त्रिणः अस्याः यात्रायाः उद्देश्यम् भारत-श्रीलङ्कयोः मध्यवर्तिनीं द्विपक्षीयरक्षासहभागितां सामुद्रिकसुरक्षा-सहभागितां च सुदृढां कर्तुम् अस्ति।

सः श्रीलङ्कायाः राष्ट्रपतिं रक्षामन्त्रीं च अनुरकुमार-दिसानायकेम्, प्रधानमन्त्रिणीं डॉ. हरिणी-अमरसूर्याम् तथा रक्षासचिवं सम्पथ-थुयाकोन्थाम् च मेलिष्यति। राजनाथसिंहः कोलम्बोनगरे निवसद्भिः भारतीयप्रवासिभिः भारतीयसमुदायेन च सह अपि संवादं करिष्यति। अस्मिन् उच्चस्तरीययात्रायां तेन सह रक्षा-मन्त्रालयस्य विदेशमन्त्रालयस्य च वरिष्ठाधिकारिणः अपि सम्मिलिताः सन्ति।अस्य यात्राकाले प्रधानमन्त्रिणा नरेन्द्र-मोदिना ५ एप्रिलमासे २०२५ दिनाङ्के कोलम्बोनगरस्य यात्राकाले हस्ताक्षरितस्य भारत-श्रीलङ्का-रक्षा-सहयोगसम्बन्धिनः सन्धिज्ञापनस्य पूर्णतया समये च कार्यान्वयनस्य समीक्षा अपि भवितुम् अपेक्ष्यते।

भारत-श्रीलङ्कयोः मध्यवर्तिन् पञ्च-वर्षीयम् इदं समझौताज्ञापनम् उभयोर्देशयोः रक्षासहयोगं हिन्दमहासागरे च समानसुरक्षाचिन्तानां निवारणं सम्बोधयति। अस्मिन् सन्धौ संयुक्त-सैन्याभ्यासानां संवर्धनम्, क्षमता-निर्माणम्, मानवीयसहायता, आपद्राहति-सहयोगः तथा उभयोर्देशयोः नौसेनायानानां बन्दरगाहागमनानां संवर्धनम् इत्यादीनि अनेकानि क्षेत्राणि अन्तर्भवन्ति। अस्मिन् रक्षोद्योगक्षेत्रे सहयोगस्य अवसरान् अन्वेष्टुं व्यवस्था अपि अस्ति।

पञ्चवर्षपर्यन्तं वैधम् इदं सन्धिज्ञापनम् उभयोः पक्षयोः कश्चिदपि पक्षः त्रिमासपूर्वसूचनां दत्त्वा समाप्तं कर्तुं शक्नोति। परस्परसम्मत्या च एतत् त्रिवर्षपर्यन्तं अधिकं प्रवर्धयितुं शक्यते।

Hindusthan Samachar / Divya Ranjan