Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०८ सेप्टेम्बरमासः (हि.स.)। रूसस्य मतानुसारं ब्रिक्सदेशैः सह तस्य ९० प्रतिशतं व्यापारः राष्ट्रियमुद्राभिः क्रियमाणः अस्ति। अस्य प्रमुखं कारणम् अमेरिकया रूसस्य डॉलर-आधारितवित्तीयव्यवस्थां प्रति प्रवेशः प्रतिबन्धितः कृतः इति अस्ति। रूसः अन्ताराष्ट्रियमुद्रारूपेण डॉलर इत्यस्य प्रयोगस्य विरोधी नास्ति। वस्तुतः अमेरिकायाः नीतयः एव डॉलर इत्यस्य लाभप्रदप्रयोगं प्रतिबध्नन्ति। एतस्यैव कारणेन रूसः स्वस्य अन्ताराष्ट्रियव्यापारे राष्ट्रियमुद्राणाम् अधिकप्रयोगं कर्तुं बाध्यः अभवत्।
स्पूतनिक-इण्डिय इत्यनया नवदिल्ली इत्यस्य इण्डिया-हैबिटेट-सेण्टर इत्यत्र दूरदृश्यसम्मेलनमाध्यमेन आयोजितायां पत्रकारवार्तायां क्रेम्लिनस्य प्रवक्ता दिमित्रीपेस्कोवः एताः उक्तीः उक्तवान्। पत्रकारवार्ता अग्रिमब्रिक्सशिखर-सम्मेलनस्य राष्ट्रपतिव्लादिमीरपुतिनः भारतयात्रायाश्च सन्दर्भे आयोजिता आसीत्।
पेस्कोवः उक्तवान् यत् ब्रिक्सः कस्यचित् विरुद्धं निर्मितः समूहः नास्ति, अपितु स्वकीयान् राष्ट्रियहितान् मिलित्वा साधयितुं मञ्चरूपेण विकसितः अस्ति। अस्य उद्देश्यम् पश्चिमदेशैः सह संघर्षः नास्ति। अपरतः डॉलरसम्बद्धप्रश्नस्य उत्तरं ददन् पेस्कोवः उक्तवान्— “यदि ते अस्मान् स्वस्य धनस्य प्रयोगं कर्तुं न अनुमन्यन्ते, तर्हि वयं स्वस्य धनस्य प्रयोगं करिष्यामः। वयं कस्यापि प्रकारस्य डॉलरविरोधिनीं नीतिं समर्थयितुम् न इच्छामः। वयं केवलं तत् कुर्मः यत् अस्माकं राष्ट्रियहितेभ्यः सर्वाधिकम् उपयुक्तम् अस्ति।”
अग्रिमस्य ब्रिक्सशिखरसम्मेलनस्य भारत-रूसयोः नेतॄणां वार्तायाश्च विषये सः सूचितवान् यत् प्रधानमन्त्री नरेन्द्रमोदी राष्ट्रपतिः पुतिनश्च शुक्रवासरे द्विपक्षीयां वार्तां कर्तुं शक्नुतः। अस्यां वार्तायां व्यापारसम्बद्धेषु सुरक्षासम्बद्धेषु च विषयेषु चर्चा सम्भाव्यते। तदतिरिक्तं राष्ट्रपतिः पुतिनः प्रधानमन्त्री मोदी च संवेदनशीलान् वैश्विकविषयान् प्रति स्वस्वपक्षं परस्परं ज्ञापयिष्यतः। कृत्रिमबुद्धिमत्तायाः सहयोगः अपि उभयोः नेतॄणां वार्तायाः प्रमुखः विषयः भविष्यति।
भारतस्य नेतृत्वे आयोज्यमानस्य ब्रिक्ससंवादस्य परिणामान् प्रति रूसः अत्यन्तम् आशान्वितः अस्ति। सः उक्तवान् यत् ब्रिक्सस्य कृते रूसस्य कार्यसूच्यां सुरक्षा, आर्थिकसहयोगः सांस्कृतिक-सहयोगश्च प्रमुखाः विषयाः सन्ति।
प्रवक्ता उक्तवान् यत् ब्रिक्सस्य विचारधारायां बहुध्रुवीयविश्वस्य अवधारणा प्रमुखतया अन्तर्भवति। तथापि अमेरिकायाः नामोल्लेखं विना सः उक्तवान् यत् केचन शक्तिशालिनः पक्षाः पुनः एकध्रुवीयविश्वस्य स्थापनायाः प्रयासं कुर्वन्ति। एतदर्थं ते खतरनाकान् उपायान् अपि प्रयुञ्जते। अपरतः वैश्विकबहुमतं बहुध्रुवीयविश्वस्य पक्षे अस्ति तथा च भारतम् अस्मिन् दिशि महत्त्वपूर्णां भूमिकां निर्वहति।
यूक्रेनसम्बन्धे सः भारतस्य भूमिकायाः प्रशंसां कृतवान्। तथैव अमेरिकायाः राष्ट्रपतिः डोनाल्डट्रम्पः तस्य प्रयासाश्च अपि महत्त्वपूर्णाः इति उक्तवान्। सः उक्तवान् यत् यूक्रेनसंघर्षः रूसस्य पक्षतः आरब्धः नासीत्। २०१४ तमे वर्षे फ्रान्स-ब्रिटेन-जर्मनी-अमेरिकादेशैः सत्तापरिवर्तनं कृतम् आसीत्। सत्तापरिवर्तनस्य कारणेन राष्ट्रवादीशक्तिभिः रूसीजनानां दमनम् आरब्धम्। रूसः अस्य संघर्षस्य समाप्तिम् इच्छति। वयं सर्वप्रकारस्य प्रयासानां समर्थनं कुर्मः तथा आशां कुर्मः यत् शीघ्रमेव रूस-यूक्रेन-अमेरिकादेशानां मध्ये वार्ता पुनः प्रारप्स्यते।
तदनन्तरं सः अमेरिकया रूसदेशेन सह व्यापारं कुर्वतां पक्षान् प्रति आरोप्यमाणान् प्रतिबन्धान् अवैधानिकान् अभिहितवान् तथा च उक्तवान् यत् एते प्रतिबन्धाः अन्ताराष्ट्रियव्यापारस्य नियमानां विरुद्धाः सन्ति।
Hindusthan Samachar / Divya Ranjan