Enter your Email Address to subscribe to our newsletters

– प्राग्ज्योतिषपुरविश्वविद्यालये सरकार्य-वाहस्य दत्तात्रेयहोसबालेस्य सम्बोधनम्
गुवाहाटी, ०८ सेप्टेम्बरमासः (हि.स.)। राष्ट्रियस्वयंसेवकसङ्घस्य सरकार्यवाहः दत्तात्रेयहोसबाले मङ्गलवासरे अवदत् यत् शिक्षा केवलं ज्ञानार्जनस्य माध्यमं न, अपि तु विद्यार्थिनां समग्रव्यक्तित्वविकासस्य तेषु च सामाजिकउत्तरदायित्वभावनायाः विकासस्य साधनं भवितुमर्हति। सः शिक्षायां भारतीयतायाः, भारतीयजीवन-मूल्यानां सांस्कृतिकचेतनायाश्च समावेशेन सह विद्यार्थिषु वैश्विकदृष्टिकोणस्य विकासे बलं दत्तवान्।
होसबाले प्राग्ज्योतिषपुरविश्वविद्यालये आयोजिते ‘विश्वविद्यालयपरिवारस्य विशेष-सम्बोधनम्’ इति कार्यक्रमे विद्यार्थिभ्यः, शिक्षकेभ्यः विश्वविद्यालय-परिवारस्य सदस्येभ्यश्च सम्बोधनं कुर्वन् आसीत्। सः व्यक्तेः समाजस्य च विकासे शिक्षायाः महत्त्वपूर्णाया: भूमिकाया: विषये विस्तरेण प्रकाशं दत्तवान्।
सरकार्यवाहः राष्ट्रियशिक्षानीतेः (एन.ई.पी. २०२०) प्रमुखपक्षाणाम् उल्लेखं कुर्वन् विद्यार्थीकेन्द्रितशिक्षा, अनुभवाधारिता-धिगमः, कौशलाधारितशिक्षा, चरित्रनिर्माणं मूल्यशिक्षा च महत्त्वपूर्णानि इति उक्तवान्। सः अवदत् यत् शिक्षायाः उद्देश्यम् केवलं पाठ्यक्रमस्य पूर्तिः अथवा उपाधेः प्राप्तिः न भवेत्, अपि तु तया माध्यमेन विद्यार्थिषु जीवनं प्रति व्यापकावबोधनं, उत्तरदायित्व-भावना, समाजं प्रति संवेदनशीलता च विकसितव्या।
सङ्घस्य सरकार्यवाहः विश्वविद्यालयस्य प्रथमसत्रस्य विद्यार्थिभ्यः शुभकामनाः प्रदाय अवदत् यत् अस्य सत्रस्य विश्वविद्यालयस्य इतिहासे विशेषं स्थायि च स्थानं भविष्यति। सः शिक्षकाणां विद्यार्थिनां च प्रयासानां प्रशंसां कृत्वा प्राग्ज्योतिष-पुरविश्वविद्यालयं सामूहिकैः अलाभकारी-प्रयासैः स्थापितं संस्थानम् इति अवदत्।
कार्यक्रमस्य प्रारम्भः विश्वविद्यालयस्य कुलपतिना प्रो. राघवेन्द्रप्रसादतिवारिणा स्वागतोद्बोधनेन अभवत्। सः अवदत् यत् विश्वविद्यालयः भारतीयज्ञानपरम्परायाः, संस्कृतेः, परम्पराणां जीवनमूल्यानां च संरक्षणाय, संवर्धनाय प्रसाराय च प्रतिबद्धः अस्ति।
कुलपतिः अवदत् यत् आधुनिक-वैश्विकशिक्षया सह विद्यार्थिनः स्वकीयाभिः मूलाभिः सह सम्बद्धाः भवन्तु इत्येतदपि आवश्यकम् अस्ति। विश्वविद्यालयस्य उद्देश्यम् विद्यार्थिनः मूल्यनिष्ठान् सशक्तांश्च कर्तुं तथा च तान् तादृशस्य समाजस्य निर्माणे योगदानाय सज्जीकर्तुं यत्र ते स्वकीयया सांस्कृतिकविरासतया सम्बद्धाः सन्तः आधुनिकानां समस्यानां सम्मुखीकरणे समर्थाः भवेयुः।
कार्यक्रमे विश्वविद्यालयस्य कुलाधिपतिः लेफ्टिनेन्ट्-जनरल (सेवानिवृत्तः) राणाप्रतापकलीता अपि उपस्थितः आसीत्। अस्मिन् अवसरे विश्वविद्यालयपरिसरे वृक्षारोपणकार्यक्रमः अपि आयोजितः। सङ्घस्य अखिलभारतीयकार्यकारिणी-सदस्यः वी. भागैय्यः तथा दत्तात्रेयहोसबाले च पादपारोपणं कृतवन्तौ।
कार्यक्रमस्य अन्ते विश्वविद्यालयस्य कुलसचिवः डॉ. देवव्रतखनिकरः धन्यवादज्ञापनं कृतवान्। सः कार्यक्रमे उपस्थितानां अतिथीनां, विश्वविद्यालयस्य नेतृत्वस्य, शिक्षकाणां, विद्यार्थिनां, समस्तस्य विश्वविद्यालयपरिवारं च प्रति कृतज्ञताम् अर्पितवान्।
Hindusthan Samachar / Divya Ranjan