Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 08 सितंबरमासः (हि.स.)। आफ्रिकाखण्डस्य सर्वोच्चशिखरस्य माउण्ट् किलिमञ्जारो इत्यस्य सफलम् आरोहणं कृतवन्तौ उत्तराखण्डस्य बालपर्वतारोहकौ मास्टर् रियांश् पन्त् तथा प्रिशा रावत् मङ्गलवासरे मुख्यमन्त्रिणः आवासे मुख्यमन्त्रिणा पुष्करसिंहधामिना सह साक्षात्कारं कृतवन्तौ।
मुख्यमन्त्री तयोः बालपर्वतारोहकयोः अस्याः उपलब्धेः कृते अभिनन्दनं शुभकामनाश्च प्रदाय तयोः उज्ज्वलभविष्यस्य कामनां कृतवान्। सः उक्तवान् यत् एतादृशे अल्पे वयसि ५,८९५ मीटर्-मितोन्नतस्य माउण्ट् किलिमञ्जारो इत्यादृशस्य चुनौतीपूर्णस्य शिखरस्य सफलम् आरोहणं तयोः साहसं, दृढसङ्कल्पं तथा आत्मविश्वासं च प्रदर्शयति। उभौ बालकौ स्वस्य उपलब्ध्या उत्तराखण्डस्य गौरवं वर्धितवन्तौ। तयोः सफलता प्रदेशस्य अन्यान् बालकान् युवानश्च महत् लक्ष्यं निर्धार्य तस्य प्राप्तये प्रयत्नं कर्तुं प्रेरयिष्यति।
मुख्यमन्त्री धामी उक्तवान् यत् उत्तराखण्डस्य बालकेषु युवकेषु च प्रतिभायाः, साहसस्य, सामर्थ्यस्य च कापि न्यूनता नास्ति। प्रदेशस्य युवाः पर्वतारोहणे, क्रीडासु तथा अन्यासु साहसिकगतिविधिषु च उत्कृष्टं प्रदर्शनं कृत्वा राष्ट्रिय-अन्ताराष्ट्रियस्तरे प्रदेशस्य नाम गौरवान्वितं कुर्वन्ति। राज्यसर्वकारः युवा-प्रतिभानां प्रोत्साहनाय तथा तेषां अग्रे प्रगमनाय उत्तमानवसराणि प्रदातुं निरन्तरं कार्यं करोति।
सः अवगतं कारितवान् यत् नववर्षीयः रियांश् पन्त् अल्मोडाजनपदस्य चीनाखान-निवासी अस्ति तथा दशवर्षीया प्रिशा रावत् नैनीतालजनपदस्य बैलपड़ाव-निवासिनी अस्ति। उभाभ्यां २२ अगस्त्-दिने माउण्ट् किलिमञ्जारो इत्यस्य सफलम् आरोहणं कृत्वा तत्र त्रिवर्णध्वजः आरोहितः।--------------------
Hindusthan Samachar / Dheeraj Maithani