राज्यमंत्री पंवारो रुग्णैः गृहीता स्वास्थ्य सुविधानां सूचना
देहरादूनम्, 08 सितंबरमासः (हि.स.)।राज्यमन्त्री प्रतापपंवारः मङ्गलवासरे देहरादूननगरे स्थितस्य जनपदचिकित्सालयस्य कोरोनेशन इत्यस्य निरीक्षणं कृत्वा चिकित्सालये प्रविष्टैः रोगिभिः तेषां परिचारकैश्च सह स्वास्थ्यसुविधासम्बन्धिनीं जानकारीं प्राप्तवान्। र
राज्यमंत्री प्रताप पंवार जिला चिकित्सालय कोरोनेशन का निरीक्षण करते।


देहरादूनम्, 08 सितंबरमासः (हि.स.)।राज्यमन्त्री प्रतापपंवारः मङ्गलवासरे देहरादूननगरे स्थितस्य जनपदचिकित्सालयस्य कोरोनेशन इत्यस्य निरीक्षणं कृत्वा चिकित्सालये प्रविष्टैः रोगिभिः तेषां परिचारकैश्च सह स्वास्थ्यसुविधासम्बन्धिनीं जानकारीं प्राप्तवान्।

रोगिभिः मन्त्रिणे कथितं यत् तेभ्यः समये आवश्यकाः औषधयः तथा च औषधिप्रक्षेपणानि उपलब्ध्यन्ते। रोगिभिः परिचारकैश्च चिकित्सालयप्रशासनस्य, चिकित्सकानां तथा परिचारिकाप्रभारीणां कार्याणां प्रशंसामपि कृता।

निरीक्षणसमये राज्यमन्त्रिणा चिकित्सालयस्य औषधिविभागस्य, दग्धरोगविभागस्य, शल्यचिकित्साविभागस्य, रोगनिदानप्रयोगशालायाः तथा चिकित्सालयस्य अन्येषां महत्त्वपूर्णानां विभागानां च निरीक्षणं कृतम्। अस्मिन् अवसरे चिकित्सालये स्वच्छताव्यवस्था सन्तोषजनका दृष्टा तथा सर्वे कर्मचारी निर्धारितवेशभूषायां स्वस्वकक्षेषु उपस्थिताः दृष्टाः।

राज्यमन्त्री चिकित्सालये सुव्यवस्थितप्रबन्धनाय, स्वच्छतायै तथा रोगिभ्यः प्रदीयमानानां गुणवत्तापूर्णानां स्वास्थ्यसुविधानां कृते प्रमुखाधीक्षकं डॉ. यतेन्द्रसिंहं तस्य दलं च धन्यवादं ज्ञापितवान्।

निरीक्षणसमये जनसम्पर्काधिकारी प्रमोदपंवारः, सहायकपरिचारिकाधीक्षिका सुशीला पंवारः, ज्योति खन्ना इत्यादयः अन्ये चिकित्साकर्मचारिणश्च उपस्थिताः आसन्।------------------

Hindusthan Samachar / Dheeraj Maithani