Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 08 सितंबरमासः (हि.स.)।मुख्यमन्त्री पुष्करसिंहधामी उक्तवान् यत् ‘ज्ञानगङ्गासम्मानसमारोहः’ केवलं सम्मानस्य छात्रवृत्तिवितरणस्य च कार्यक्रमः नास्ति, अपितु प्रतिभानां परिचयं कर्तुं, शिक्षां प्रोत्साहितुं, बालकानां स्वप्नानां च नूतनां उड्डयनशक्तिं प्रदातुं प्रशंसनीयः प्रयासः अस्ति। तेन उक्तं यत् कस्यचित् बालकस्य शिक्षायां सहयोगं करणं केवलम् आर्थिकसाहाय्यं न, अपितु तस्य स्वप्नानां पूर्तौ सहभागित्वम् अस्ति।
मङ्गलवासरे मुख्यमन्त्रिणः शिविरकार्यालयस्थिते मुख्यसेवकसदने मुख्यमन्त्रिणा कुसुमकान्ताफाउण्डेशन-मन्थनवेलफेयरएसोसिएशन इत्यनयोः तर्फतः आयोजिते ‘ज्ञानगङ्गासम्मानसमारोहे छात्रवृत्तिवितरणकार्यक्रमे’ च शिक्षकाः सम्मानिताः, मेधाविनः छात्राः छात्राश्च छात्रवृत्तिभिः पुरस्कृताः।
मुख्यमन्त्रिणा स्वर्गीयायै कुसुमकान्तायै श्रद्धाञ्जलिः समर्पिता। तेन उक्तं यत् सङ्गीते, साहित्ये, शिक्षायां च तस्याः समर्पणम् प्रेरणादायकम् आसीत्। तस्याः जीवनमूल्यानां सेवाभावस्य च अनुसरणं कुर्वन् कुसुमकान्ताफाउण्डेशनं गतषड्वर्षेभ्यः शिक्षायाः, महिलासशक्तीकरणस्य, कौशलविकासस्य, अङ्कीयसाक्षरतायाः, पर्यावरणसंरक्षणस्य च क्षेत्रेषु कार्यं करोति। तेन मन्थनवेलफेयरएसोसिएशनस्य शिक्षा, स्वास्थ्य, महिलासशक्तीकरण, कौशलविकास, जनकल्याणादिसम्बद्धानां प्रयासानामपि प्रशंसा कृता।
धामिना उक्तं यत् भारतीयसंस्कृतौ गुरवे सदैव सर्वोच्चं स्थानं प्रदत्तम् अस्ति। तेन उक्तं यत् शिक्षकः केवलं पुस्तकीयज्ञानं न ददाति, अपितु विद्यार्थिने दृष्टिं, आत्मविश्वासं, संस्कारांश्च प्रददाति। शिक्षकः केवलस्य एकस्य विद्यार्थिनः न, अपितु सम्पूर्णराष्ट्रस्य भविष्यस्य निर्माणं करोति। तेन शिक्षकान् बालकेभ्यः गुणवत्तापूर्णशिक्षया सह जीवनमूल्यानां, संस्काराणां, उत्तरदायित्वस्य च बोधं प्रदातुम् आह्वानं कृतम्।
मुख्यमन्त्रिणा उक्तं यत् प्रधानमन्त्री नरेन्द्रमोदिनः नेतृत्वे राष्ट्रियशिक्षानीतेः माध्यमेन देशस्य शिक्षाव्यवस्थां आधुनिकां, व्यावहारिकां, गुणवत्तापूर्णां च कर्तुं दिशि महत्त्वपूर्णाः पदक्षेपाः स्वीकृताः सन्ति। उत्तराखण्डः राष्ट्रियशिक्षानीतेः कार्यान्वयनं कर्तृषु अग्रणीषु राज्येषु अभवत्। राज्यसर्वकारः शिक्षायाः गुणवत्तायाः सुधारस्य सह शिक्षकाणां नियुक्तिप्रक्रियायाः पारदर्शितां निष्पक्षतां च सुनिश्चितं कर्तुमपि विशेषं ध्यानं ददाति।
तेन अभिभावकान् बालकेभ्यः सुविधाभिः सह पर्याप्तं समयं, उत्तमसंस्कारान्, अनुशासनं च प्रदातुम् आह्वानं कृतम्। तेन उक्तं यत् बालकानां उज्ज्वलं भविष्यं केवलया उत्तमशिक्षया न निर्मीयते, अपितु विद्यालयस्य परिवारस्य च संयुक्तसहयोगेन निर्मीयते।
धामिना विद्यार्थिभ्यः महान्ति स्वप्नानि द्रष्टुं तानि च पूरयितुं परिश्रमेन, अनुशासनेन, दृढसङ्कल्पेन च अग्रे गन्तुम् उक्तम्। तेन उक्तं यत् असफलताभ्यः शिक्षां गृहीत्वा निरन्तरं लक्ष्यस्य दिशि अग्रे गन्तव्यम्। तेन विद्यार्थिभ्यः भविष्ये कस्मिन्नपि क्षेत्रे गन्तुं पूर्वम् उत्तममनुष्यः उत्तरदायीनागरिकश्च भवितुम् आह्वानं कृतम्।
पूर्वमुख्यमन्त्री पूर्वकेन्द्रीयशिक्षामन्त्री च डॉ. रमेशपोखरियालः ‘निशङ्कः’ स्वधर्मपत्न्यै स्वर्गीयायै कुसुमकान्तायै भावपूर्णां श्रद्धाञ्जलिं समर्प्य उक्तवान् यत् शिक्षायां, साहित्ये, सङ्गीते, समाजसेवायां च तस्याः विशेषः अनुरागः आसीत्। शिक्षिकारूपेण सा शिक्षायाः संस्काराणां च सदैव महत्त्वं दत्तवती। तस्याः जीवनमूल्यानाम् अनुसरणं कुर्वन् शिक्षाक्षेत्रे समाजहिते च क्रियमाणानि कार्याणि तस्यै सत्यां श्रद्धाञ्जलिं समर्पयन्ति।
डॉ. निशङ्कः उक्तवान् यत् शिक्षा व्यक्तेः सम्पूर्णव्यक्तित्वस्य राष्ट्रस्य भविष्यस्य च निर्माणस्य आधारः अस्ति। तेन छात्रवृत्तिप्राप्तेभ्यः विद्यार्थिभ्यः स्वज्ञानस्य प्रतिभायाश्च उपयोगं समाजस्य राष्ट्रस्य च हिताय कर्तुम् आह्वानं कृतम्।
कार्यक्रमे मन्त्रिमण्डलस्य मन्त्री खजानदासः, विधायकः सविताकपूरः, प्रो. सुधाराणीपाण्डेयः, कुसुमकान्ताफाउण्डेशनस्य संस्थापिका विदुषी निशङ्कः, आर्यनदेवउनियालः इत्यादयः अन्ये च गणमान्याः जनाः उपस्थिताः आसन्।
----------------------
Hindusthan Samachar / Dheeraj Maithani