Enter your Email Address to subscribe to our newsletters

उत्तरप्रदेश-वस्त्रोद्योग-सम्मेलने मुख्यमन्त्रिणा योगिना उद्योगविकासस्य सुरक्षायाश्च महत्त्वं प्रतिपादितम्लखनऊ, ०८ सेप्टेम्बरमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः मङ्गलवासरे अत्र इन्दिरागान्धीप्रतिष्ठाने ‘उत्तरप्रदेश-वस्त्रोद्योग-सम्मेलनम्-२०२६’ इत्यस्य उद्घाटनं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री योगी आदित्यनाथः उक्तवान् यत् उत्तरप्रदेशे उद्योगाः सन्ति चेत् उद्यमशीलताऽपि अस्ति। विश्वस्य सर्वाधिकं युवाकार्यबलम् अपि अस्माकं समीपे अस्ति। कृषेः अनन्तरं सर्वाधिकं रोजगारसृजनस्य क्षेत्रं वस्त्रोद्योगः अस्ति। विगतेषु सार्धनववर्षेषु वयं नवीनां कथां रचयितुं व्यवस्थां निर्मितवन्तः। प्रधानमन्त्रिणा नरेन्द्रमोदिना अस्य क्षेत्रस्य कृते लक्ष्यं निर्धारितम् अस्ति। एतत् राष्ट्रियसङ्कल्पं तदैव पूर्णं भविष्यति यदा उत्तरप्रदेशः अस्मिन् महत्त्वपूर्णं योगदानं दास्यति।
उद्यमिभ्यः सम्बोधयन् मुख्यमन्त्री योगी उक्तवान् यत् २०१७ तः पूर्वं उत्तरप्रदेशस्य स्थितिः कीदृशी आसीत् इति सर्वैः ज्ञायते। प्रदेशस्य विधिव्यवस्था पूर्णतया अव्यवस्थिता आसीत्। प्रत्येकस्मिन् जनपदे दस्यूभिः स्वव्यवस्था सञ्चालिता आसीत्। सम्पूर्णे प्रदेशे हत्या, लुण्ठनम्, अपहरणम् इत्यादीनां अपराधानाम् उद्योगः प्रचलति स्म। व्यावसायिकाः दस्यवः सत्तायाः समानान्तरं स्वव्यवस्थां सञ्चालयन्ति स्म।निवेशकः बहिःप्रदेशात् व्यापारस्य स्वप्नं गृहीत्वा आगच्छति स्म, किन्तु वसूलीपत्रं गृहीत्वा प्रत्यागच्छति स्म। दस्यवः शस्त्राणि प्रदर्शयन्तः कुत्रापि गन्तुम् आगन्तुं च शक्नुवन्ति स्म। यत्र ते भूमौ हस्तं स्थापयन्ति स्म, सा भूमिः तेषामेव भवति स्म। तत्कालीनः सर्वकारः मौनम् आसीत्। उत्तरप्रदेशस्य नागरिकाणां पुरतः परिचयस्य सङ्कटम् आसीत्। उत्तरप्रदेशस्य बहिः प्रदेशेषु उत्तरप्रदेशीयनागरिकेभ्यः आवासः न दीयते स्म, होटल इत्येतेषु च कक्षः अपि न दीयते स्म। कस्यापि समाजस्य कृते एतादृशात् भीषणतरं संकटं किम् अन्यत् भवितुम् अर्हति?
अद्य उत्तरप्रदेशे न युद्धम्, न कर्फ्यू, न अराजकता
मुख्यमन्त्री उक्तवान् यत् अधुना उत्तरप्रदेशः युद्धमुक्तः, कर्फ्यूमुक्तः, उपद्रवमुक्तश्च अस्ति। अधुना कश्चिदपि माफिया स्वस्य भूषुण्डिं प्रदर्शयन् मुक्तरूपेण जीपयानेन भ्रमितुं न शक्नोति। अधुना कस्यापि कन्यायाः, व्यापारिणः निवेशकस्य वा सुरक्षां भङ्गं कर्तुं कश्चिदपि साहसं कर्तुं न शक्नोति। यदि कश्चित् एवं करोति, तर्हि तस्य कृते द्वे एव स्थाने स्तः— कारागारः अथवा नरकः; तृतीयं स्थानं नास्ति। एषः परिवर्तितः उत्तरप्रदेशः अस्ति।
प्रदेशे २०१७ तमवर्षानन्तरं यदा जनानां विश्वासः पुनः स्थापितः, तदा अधुना तस्य परिणामः दृश्यते। सामान्यजनानां, उद्यमिनां व्यापारिणां च विश्वासः पुनः स्थापितः अस्ति।
उत्तरप्रदेशे बृहन्निवेशाय उद्योगजगत् उत्साहितम् - रामीरेड्डी
उत्तरप्रदेशं वस्त्रोद्योगक्षेत्रे देशस्य अग्रणीराज्यं कर्तुं उद्योगजगत् बृहत्निवेशं प्रति उत्साहितम् अस्ति। ‘उत्तरप्रदेश-वस्त्रोद्योग-सम्मेलनम्-२०२६’ इत्यस्य उद्घाटनसमारोहे पूर्वराज्यसभासदस्यः, उद्योगपतिः, समाजसेवी तथा राम्की-समूहस्य संस्थापक-अध्यक्षः अल्ला अयोध्या रामीरेड्डी उत्तरप्रदेशे निवेशाय उपलब्धस्य अनुकूलवातावरणस्य प्रशंसां कृतवान्।
मुख्यमन्त्रिणः योगी आदित्यनाथस्य नेतृत्वे जायमानस्य तीव्रविकासस्य उत्तमस्य औद्योगिकवातावरणस्य च प्रशंसां कुर्वन् सः उक्तवान् यत् उत्तरप्रदेशः अधुना उद्योगानां कृते निवेशस्य विकासस्य च सम्भावनाभिः युक्तं महत्त्वपूर्णं गन्तव्यस्थानरूपेण विकसितः अस्ति।
रामीरेड्डी उक्तवान् यत् प्रधानमन्त्रिणा नरेन्द्रमोदिना नेतृत्वे यया गतिना देशः अग्रे गच्छति, तस्यामेव दिशि मुख्यमन्त्री योगी आदित्यनाथः अपि नवीनचिन्तनेन, अनुशासनेन नियन्त्रणेन च उत्तरप्रदेशं अग्रे नयति। प्रदेशे अनुशासनस्य नियन्त्रणस्य सुरक्षायाश्च वातावरणम् उद्योगपतिषु निवेशस्य विश्वासं जनयति। उद्योगपतयः तत्रैव धनं निवेशयितुम् इच्छन्ति यत्र तेभ्यः सुरक्षया सह स्थिरं विश्वसनीयं च वातावरणं प्राप्यते।
उत्तरप्रदेशः देशस्य बृहत्तमं राज्यं भवितुं सह संसाधनसम्पन्नम् अपि अस्ति। प्रदेशस्य सुदृढं राजनैतिकं समर्थं प्रशासनिकं च नेतृत्वम् उद्योगजगतः एतद् विश्वासं जनयति यत् अत्र आगत्य निवेशं कर्तुं शक्यते।
रेड्डी उक्तवान् यत् वस्त्रोद्योगः देशस्य प्राचीनतमेषु महत्त्वपूर्णेषु च उद्योगेषु अन्यतमः अस्ति। देशस्य विभिन्नेषु भागेषु अस्य क्षेत्रस्य विकासः भवति, किन्तु तमिलनाडुराज्येन वस्त्रोद्योगक्षेत्रे उल्लेखनीया प्रगतिः कृता अस्ति। उत्तरप्रदेशं अस्मिन् क्षेत्रे देशस्य प्रथमं राज्यं कर्तुं तमिलनाडुप्रभृतीनां राज्यनां सफलानुभवात् शिक्षां गृहीत्वा स्वकीयपरिस्थित्यानुसारं दृढदृष्टिकोणं कार्ययोजनां च निर्मातव्यम्। अस्य कृते प्रदेशसर्वकारेण उद्योगजगत् सह मिलित्वा अग्रे गन्तव्यम्।
सः उक्तवान् यत् लखनऊनगरं परितः तथा सम्पूर्णे प्रदेशे चतुर्षु पञ्चसु स्थानेषु निर्मीयमाणानि वस्त्रोद्योगकेन्द्राणि उद्योग-प्राङ्गणानि च अस्मिन् दिशि महत्त्वपूर्णः आरम्भः सन्ति। एतेन स्पष्टं भवति यत् योगीसर्वकारः वस्त्रोद्योगस्य विषये गम्भीरतया कार्यं करोति।
भारतीयवस्त्रपरिधानोद्योगस्य विपणं ३५० अरबडॉलरपर्यन्तं नेतुं लक्ष्यम् - अश्विनचन्द्रन्
अस्मिन् अवसरे प्रीकॉट्-लिमिटेड्-संस्थायाः अध्यक्षः प्रबन्धनिदेशकश्च तथा भारतीयवस्त्रोद्योगसङ्घस्य उपाध्यक्षः अश्विनचन्द्रन् उक्तवान् यत् भारतीयवस्त्र-परिधानोद्योगः महत्त्वपूर्ण-परिवर्तनस्य चरणे प्रविष्टः अस्ति। वैश्विकापूर्ति-शृङ्खलायां परिवर्तनस्य मध्ये क्रेतारः अधुना मूल्येन सह गुणवत्तां, प्रौद्योगिकीम्, स्थायित्वम्, उत्पादकतां समये च आपूर्तिम् अपि प्राथमिकतया पश्यन्ति।
सः उक्तवान् यत् भारतस्य समीपे अपक्ववस्तुनः आरभ्य निर्मितवस्तुपर्यन्तं सम्पूर्णा वस्त्रमूल्यशृङ्खला तथा विशालं गृहविपणं विद्यते। अग्रिमेषु पञ्चसु वर्षेषु भारतीयवस्त्रपरिधानविपणं वर्तमानस्य प्रायः १८० अरबडॉलरमितात् वर्धयित्वा प्रायः ३५० अरबडॉलरपर्यन्तं तथा निर्यातं प्रायः ३७ अरबडॉलरमितात् वर्धयित्वा १०० अरबडॉलरपर्यन्तं नेतुं लक्ष्यम् अस्ति। अस्य कृते बृहत्प्रमाणेन विस्तारः, एकीकृतौ-द्योगिकतन्त्रं, प्रौद्योगिक्याः उन्नयनम्, कृत्रिमबुद्धिमत्तायाः रोबोट्-प्रौद्योगिक्याश्च प्रयोगस्य वृद्धिश्च आवश्यकाः सन्ति।
चन्द्रन् उक्तवान् यत् उत्तरप्रदेशस्य समीपे युवाकार्यबलम्, सुदृढः लघुमध्यमो-द्यमाधारः, वस्त्रपरिधानसमूहाः, हस्तकरघा-हस्तशिल्पयोः समृद्धपरम्परा तथा विशालः गृहविपण्यश्च अस्ति। प्रदेशः तकनीकी-वस्त्राणां, स्थायिवस्तूनां पुन-र्चक्रितवस्तूनां च तथा उच्चमूल्य-युक्तानां गृहोपयोगि-वस्त्राणां क्षेत्रे महत्त्वपूर्णां भूमिकां निर्वोढुं शक्नोति।
उत्तरप्रदेशकौशलविकासमिशनस्य विविधप्रयत्नानाम् उल्लेखं कुर्वन् सः उक्तवान् यत् सीआईटीआई भारत-सर्वकारेण सह समर्थयोजनायाः अन्तर्गतं वस्त्रक्षेत्रे कौशलविकासाय कार्यं करोति। अस्यैव अनुभवस्य आधारेण संस्था उत्तरप्रदेशसर्वकारेण सह मिलित्वा विद्यमानानाम् औद्योगिकसमूहानां नवीन-निवेशपरियोजनानां च कृते भविष्यस्य आवश्यकतानुसारं कुशलकार्यबलस्य निर्माणे सहयोगं कर्तुं सज्जा अस्ति।
Hindusthan Samachar / Divya Ranjan