काशी क्षेत्रस्य महामंत्रिणो विद्याधर तिवारिणो भव्यं स्वागतं, कार्यकर्तृषु दृष्टः उत्साहः
मीरजापुरम्, 08 सितंबरमासः (हि.स.)। भारतीयजनतापार्टी-काशीक्षेत्रस्य नवनियुक्तस्य क्षेत्रीयमहामन्त्रिणः विद्याधरतिवारिणः मङ्गलवासरे भाजपानगरमण्डलपश्चिमी-दलस्य कार्यकर्तृभिः लालडिग्गीचतुष्पथे भव्यं स्वागतं कृतम्। नगराध्यक्षस्य पश्चिमीमण्डलस्य नितिनविश
काशी क्षेत्र के नवनियुक्त क्षेत्रीय महामंत्री विद्याधर तिवारी का स्वागत करते भाजपाजन।


मीरजापुरम्, 08 सितंबरमासः (हि.स.)। भारतीयजनतापार्टी-काशीक्षेत्रस्य नवनियुक्तस्य क्षेत्रीयमहामन्त्रिणः विद्याधरतिवारिणः मङ्गलवासरे भाजपानगरमण्डलपश्चिमी-दलस्य कार्यकर्तृभिः लालडिग्गीचतुष्पथे भव्यं स्वागतं कृतम्। नगराध्यक्षस्य पश्चिमीमण्डलस्य नितिनविश्वकर्मणः नेतृत्वे आयोजिते कार्यक्रमे कार्यकर्तारः तस्मै शुभकामनाः प्रदत्तवन्तः।

स्वागतसमारोहानन्तरं विद्याधरतिवारी लालडिग्गीस्थले जनसङ्घस्य संस्थापकस्य पण्डितदीनदयालोपाध्यायस्य प्रतिमायां माल्यार्पणं कृत्वा श्रद्धाञ्जलिम् अर्पितवान्। सः कार्यकर्तॄन् सङ्गठनं सुदृढं कर्तुं सक्रियतया कार्यं कर्तुम् आह्वानं कृतवान्।

अस्मिन् अवसरे भाजपाजिलाध्यक्षः लालबहादुरसरो जः, पूर्वजिलाध्यक्षः मनोजजायसवालः, नगरपालिकाध्यक्षः श्यामसुन्दरकेसरी, जिलाकोषाध्यक्षः चन्द्राशगोयलः, पूर्वजिलामहामन्त्री आशुकान्तचुनाहे इत्यादयः बहुसंख्यकाः कार्यकर्तारः उपस्थिताः आसन्।

Hindusthan Samachar / Dheeraj Maithani