अयोध्यायाः आदर्शे विकसितं भविष्यति सीतापुरस्य नैमिषारण्यम्, भव्यवैदिकनगर्याः स्वरूपं प्राप्स्यति।
पञ्चाशत्सहस्रं प्राचीनधार्मिकपुस्तकयुक्तं डिजिटल-वैदिकग्रन्थालयं भविष्यति चतुर्णां वेदानां समर्पितं ‘वेदमन्दिरं’ निर्मास्यते वेदविज्ञानकेन्द्रे वेधशाला तारामण्डलं च स्थापयिष्येते त्रिशतं विद्यार्थिभ्यः छात्रावासः निर्मास्यते लखनऊ, ८ सितम्बरमासः
नैमिषारण्य तीर्थ


पञ्चाशत्सहस्रं प्राचीनधार्मिकपुस्तकयुक्तं डिजिटल-वैदिकग्रन्थालयं भविष्यति

चतुर्णां वेदानां समर्पितं ‘वेदमन्दिरं’ निर्मास्यते

वेदविज्ञानकेन्द्रे वेधशाला तारामण्डलं च स्थापयिष्येते

त्रिशतं विद्यार्थिभ्यः छात्रावासः निर्मास्यते

लखनऊ, ८ सितम्बरमासः (हि.स.)। उत्तरप्रदेशस्य नैमिषारण्यं केवलं प्राचीनं तीर्थस्थानं न, अपितु सनातनपरम्परायाम् आस्था-ज्ञान-तपस्यायाः महत्त्वपूर्णा भूमिरिति प्रतिष्ठितम् अस्ति। सीतापुरजनपदे गोमतीनद्याः तीरे स्थितमिदं पौराणिकतीर्थम् अधुना अयोध्यायाः आदर्शेन विकसितं कृत्वा भव्यवैदिकनगर्याः स्वरूपं प्रदातुं कार्यं तीव्रतया प्रचलति। योगी आदित्यनाथस्य सर्वकारेण नैमिषारण्यतीर्थपरिषदः गठनं कृत्वा धार्मिक-सांस्कृतिक-मूलभूतसुविधानां योजनाबद्धविकासस्य प्रक्रिया प्रारब्धा अस्ति।

राजधानी लखनऊतः प्रायः अशीतिः किलोमीटरदूरे स्थितं नैमिषारण्यं दीर्घकालात् देश-विदेशेभ्यः आगच्छतां श्रद्धालूनां आकर्षणस्य केन्द्रम् अस्ति। धार्मिकमान्यतानुसारम् अत्र सार्धत्रिकोटितीर्थानां त्रयस्त्रिंशत्कोटिदेवानां च निवासः अस्ति। सर्वकारस्य योजनानां पूर्णत्वानन्तरं श्रद्धालुभ्यः उत्तमसुविधानां प्राप्तिः भविष्यति, क्षेत्रस्य धार्मिक-सांस्कृतिकक्रियाकलापानां च नूतनः विस्तारः सम्भाव्यते।

अष्टाशीतिसहस्रमुनीनां तपोभूमिरिति मान्यता

नैमिषारण्यस्य नामकरणेन तस्य महत्त्वेन च सम्बद्धाः बह्व्यः पौराणिककथाः प्रचलिताः सन्ति। एकस्यां मान्यतानुसारम् अष्टाशीतिसहस्राः ऋषिमुनयः यदा ब्रह्मणः समीपं गत्वा कलियुगस्य प्रभावात् मुक्तायाः, निरन्तरसाधनायै योग्यायाः तपोभूमेः विषये पृष्टवन्तः, तदा ब्रह्मणा एकं चक्रं क्षिप्तम्। यत्र तत् चक्रं स्थितं तत्र चक्राकारं कुण्डं निर्मितम्। चक्रस्य ‘नेमिः’ अस्मिन् स्थले एव पतिता, अतः अस्य स्थानस्य नाम ‘नैमिषारण्य’ इति अभवत्। ‘नैमिषारण्य’ इति नाम ‘नेमि’ तथा ‘अरण्य’ इत्येतयोः संयोगेन निष्पन्नमिति मान्यता अस्ति।

वेदपुराणेष्वपि नैमिषारण्यं अष्टाशीतिसहस्रऋषीणां तपस्यायाः ज्ञानस्य च स्थलीरूपेण वर्णितम् अस्ति। धार्मिकमान्यतानुसारं महर्षिणा वेदव्यासेन अत्रैव वेदानां विभागः कृतः तथा पुराणानां रचना तेषां पाठश्च कृतः। महाभारते, वायुपुराणे, मार्कण्डेयपुराणे च नैमिषारण्यस्य उल्लेखः प्राप्यते। मान्यतानुसारं महाभारतस्य कथायाः महत्त्वपूर्णः भागः अपि अत्र ऋषीणां प्रेरणया सूतजीना कथितः।

सीतापुरनिवासिना डॉ. जितेन्द्रप्रकाशमिश्रेण कथितं यत् नैमिषारण्ये दर्शनपूजनाभ्यां सह मनुष्यः स्वजीवनस्य आध्यात्मिकसंशयानां निवारणस्य अवसरमपि प्राप्नोति। तेन उक्तं यत् सः बाल्यकालादेव अस्य तीर्थस्य महिमानं शृणोति स्म तथा कालेन सह अत्र जनानाम् आस्था निरन्तरं वर्धिता अस्ति। प्रातःकाले आश्रमेभ्यः मन्दिरेभ्यश्च श्रूयमाणानां घण्टानां श्लोकानां च ध्वनिभिः अद्यापि अस्य क्षेत्रस्य प्राचीनायाः आध्यात्मिकपरम्परायाः अनुभूतिः भवति।

तेन सूचितं यत् धार्मिकग्रन्थानुसारं ऋषिः दधीचिः नैमिषारण्ये सर्वेषां देवानां दर्शनं कृत्वा परिक्रमां विधाय स्वास्थीनां दानं कृतवान्। अस्यामेव मान्यतायां कारणेन श्रद्धालवः अद्यापि देश-विदेशेभ्यः अत्र आगत्य चतुरशीतिकोसीयपरिक्रमां कुर्वन्ति।

विकासाय सौन्दर्यीकरणाय च प्राप्ता गतिः

२०१७ तमे वर्षे प्रदेशे योगी आदित्यनाथस्य सर्वकारस्य गठनानन्तरं नैमिषारण्यतीर्थक्षेत्रस्य विकासाय सौन्दर्यीकरणाय च विभिन्नासु योजनासु कार्यं तीव्रतया प्रवर्तते। सर्वकारेण अस्मै निरन्तरं बजटे धनराशिः विनियोजिता अस्ति। प्रायः शतकोटिरूप्यकाणां विशेषविनियोजनस्य अन्तर्गतं विभिन्नचरणेषु विकासपरियोजनाः प्रस्ताविताः सञ्चालिताश्च सन्ति।

प्रमुखासु योजनासु चक्रतीर्थस्य, मातुः ललितादेव्याः मन्दिरस्य, गोमतीनद्याः घाटानां च जीर्णोद्धारः सौन्दर्यीकरणं च अन्तर्भवति। मातुः ललितादेव्याः मन्दिरात् चक्रतीर्थमार्गेण राजघाटपर्यन्तं नूतनस्य मार्गिकाविकासस्य प्रस्तावस्य विषये अपि कार्यं प्रचलति। तदतिरिक्तं त्रिकोटिसप्ततिलक्षरूप्यकाणां व्ययेन पुरातनधर्मशालायाः आधुनिकं ‘तीर्थयात्रीव्याख्याकेंद्रं’ रूपेण विकासः क्रियते।

वेदविज्ञानकेन्द्रं भविष्यति

नैमिषारण्ये भारतीयप्राचीनविद्यायाः संस्कृतेश्च संरक्षणाय अध्ययनाय च संस्थागतं स्वरूपं प्रदातुं वेदविज्ञानकेन्द्रस्य स्थापना क्रियते। राज्यसर्वकारेण अस्य कृते शतकोटिरूप्यकाणां बजटविनियोगः कृतः अस्ति। केन्द्रस्य स्थापनार्थं भूमिः आवंटिता तथा पञ्चविंशतिकोटिरूप्यकाणां धनराशिः विमुक्ता इति सूचना प्राप्ता अस्ति।

प्रस्ताविते केन्द्रे गुरुकुलपरम्परानुसारं कक्षाः सञ्चालयिष्यन्ते, यत्र वेदानां, पुराणानां, प्राचीनशास्त्राणां च अध्ययनं कारयिष्यते। वेदवैदिकविज्ञानसम्बद्धेषु विभिन्नेषु विषयेषु उच्चस्तरीयम् अध्ययनं शोधकार्यं च भविष्यति। शोधकार्याणां प्रकाशनस्य योजनापि अस्ति।

केन्द्रे खगोलशास्त्रविद्यार्थिनां अध्ययनाय आधुनिकवेधशालायाः तारामण्डलस्य च स्थापना क्रियते। वास्तुशास्त्रे स्नातकोत्तरस्तरीयकार्यक्रमादीनां पाठ्यक्रमाणां सञ्चालनस्य योजनापि अस्ति।

चतुर्णां वेदानां समर्पितं ‘वेदमन्दिरम्’

वेदविज्ञानकेन्द्रस्य परिसरे चतुर्णां वेदानां समर्पितस्य ‘वेदमन्दिरस्य’ निर्माणमपि प्रस्तावितम् अस्ति। अस्मिन् चतुर्णां वेदानां स्वरूपं पुस्तकानां प्रतिमानां च माध्यमेन प्रदर्शयिष्यते। तदतिरिक्तं पञ्चाशत्सहस्रप्राचीनधार्मिकपुस्तकयुक्तं विशालं डिजिटल-वैदिकग्रन्थालयं विकसितुं योजना अस्ति। केन्द्रे प्रायः त्रिशतं विद्यार्थिनां निवासक्षमतायुक्तः छात्रावासोऽपि निर्मास्यते।

केन्द्रस्य स्थापनासम्बद्धायां कार्ययोजनायां सम्मिलितः संस्कृतभाषाविद्वान् नव-नालन्दा-महाविहारस्य, नालन्दायाः संस्कृतविभागाध्यक्षः प्रोफेसरः विजयकुमारकर्णः अवदत् यत् प्रस्ताविते केन्द्रे विश्वस्तरीयस्य उत्तर-डॉक्टोरल्-शोधस्य व्यवस्था विकसितुं योजना अस्ति। तेन सूचितं यत् परिसरे ऋषिमुनीनां नामभिः वृक्षाः रोपयिष्यन्ते। कार्ययोजनायाः अन्तिमरूपनिर्धारणाय सम्बन्धितस्तरे सभाः सम्पन्नाः सन्ति तथा अग्रेऽपि सभाः प्रस्ताविताः सन्ति।

सम्पर्कसुविधा अपि सुदृढीक्रियते

नैमिषारण्यं देश-विदेशस्य विभिन्नभागैः उत्तमरीत्या संयोजयितुं श्रद्धालूनां सुविधां च वर्धयितुं सम्पर्कसुविधासम्बद्धासु परियोजनासु अपि कार्यं प्रचलति। तासु हेलिपैडस्य अथवा हेलिपोर्टस्य निर्माणम्, विद्युद्भारितानां बसयानानां सञ्चालनं, चतुष्पथमार्गाणां विकासश्च अन्तर्भवन्ति। गाजियाबाद-सीतापुररेलमार्गेणापि क्षेत्रं देशस्य अन्यैः भागैः संयोजयितुं योजना अस्ति। राजधानी लखनऊतः नैमिषारण्यस्य प्रत्यक्षसम्पर्कसुविधा पूर्वमेव विकसितास्ति।

धार्मिकपौराणिकस्थलानां समृद्धं संसारम्

नैमिषारण्यस्य सम्पूर्णं तीर्थक्षेत्रमेव धार्मिकदृष्ट्या महत्त्वपूर्णं मन्यते। अत्र चक्रतीर्थं, मातुः ललितादेव्याः मन्दिरम्, भूतेश्वरनाथमन्दिरम्, व्यासगद्दी, सूतगद्दी, मनु-सतरूपयोः तपस्थली, हनुमानगढी, चारधाममन्दिरम्, काशीकुण्डतीर्थम्, देवपुरी, काशीविश्वनाथमन्दिरम्, रुद्रावर्ततीर्थम्, देवदेवेश्वरः, सन्त आपानारायणस्वामिनः समाधिस्थलम्, बालाजीमन्दिरम्, त्रिशक्तिधाम, हत्याहरणतीर्थम्, कालिकादेवी, कालीपीठम् इत्यादीनि अनेकानि प्रमुखाणि धार्मिकानि दर्शनीयानि च स्थलानि सन्ति।

उत्तरप्रदेशसर्वकारस्य विकासयोजनाभिः सह नैमिषारण्ये धार्मिकपर्यटनं, प्राचीनज्ञानपरम्परा, वैदिकाध्ययनं, आधुनिकसुविधाश्च एकस्मिन् समये विकसितुं प्रयासः क्रियते। प्रस्तावितस्य वेदविज्ञानकेन्द्रस्य, वेदमन्दिरस्य, डिजिटलग्रन्थालयस्य, वेधशालायाः तारामण्डलस्य च परियोजनाभिः अस्य प्राचीनस्य तपोभूमिक्षेत्रस्य आधुनिकसुविधाभिः सह संयोजनं कृत्वा तस्य वैदिकां सांस्कृतिकां च परिचयं सुदृढीकर्तुं दिशि पदानि अग्रे नीयन्ते।

Hindusthan Samachar / Dheeraj Maithani