मीरजापुरम् : विहिप्-सङ्घटनेन सामाजिकसमरसतायै कार्यं कर्तुं सङ्कल्पः कृतः।
मीरजापुरम्, 08 सितंबरमासः (हि.स.)। विश्वहिन्दूपरिषदः संस्थापनादिवसस्य उपलक्ष्ये मङ्गलवासरे चुनारजनपदस्य जमालपुरप्रखण्डस्य पक्षतः ओड़ीग्रामस्थिते शैक्षणिकप्रशिक्षणकेन्द्रस्य परिसरे कार्यक्रमः आयोजितः। पदाधिकारिभिः कार्यकर्तृभिश्च सङ्घटनं सुदृढं कर
कार्यक्रम को सम्बोधित करते पदाधिकारी।


मीरजापुरम्, 08 सितंबरमासः (हि.स.)।

विश्वहिन्दूपरिषदः संस्थापनादिवसस्य उपलक्ष्ये मङ्गलवासरे चुनारजनपदस्य जमालपुरप्रखण्डस्य पक्षतः ओड़ीग्रामस्थिते शैक्षणिकप्रशिक्षणकेन्द्रस्य परिसरे कार्यक्रमः आयोजितः। पदाधिकारिभिः कार्यकर्तृभिश्च सङ्घटनं सुदृढं कर्तुं सामाजिकसमरसतायै च सक्रियभूमिकां निर्वोढुं सङ्कल्पः कृतः।

मुख्यवक्तृरूपेण जनपदसङ्घटनमन्त्री सुरेशसनातनी अवदत् यत् अस्पृश्यता, भेदभावः सामाजिकदूरी च समाप्त्यै सङ्गठितस्य समरससमाजस्य निर्माणस्य च उद्देशेन वर्षे १९६४ तमे विश्वहिन्दूपरिषदः स्थापना अभवत्। सः अवदत् यत् परिषद् जाति-मत-पन्थ-भाषा-क्षेत्राणां सीमाभ्यः उपरि उत्थाय सामाजिकैकतायै समरसतायै च कार्यं कुर्वती अस्ति।

सः अवदत् यत् गोसंरक्षणं, सेवाकार्यं, सामाजिकजागरणम् इत्यादिषु विविधक्षेत्रेषु सङ्घटनस्य गतिविधयः सञ्चाल्यन्ते। अशोकसिङ्घलस्य जन्मशताब्दीवर्षस्य उपलक्ष्ये कार्यकर्तृभ्यः परिषदः नीतयः सेवाकार्याणि च ग्रामं ग्रामं जनं जनं प्रति च प्रापयितुं सः आह्वानं कृतवान्।

कार्यक्रमे शुभमश्रीवास्तवः, केवलसिंहः, सालिकरामः, प्रेमबहादुरः, पङ्कजः इत्यादयः बहवः जनाः उपस्थिताः आसन्।

---------------

Hindusthan Samachar / Dheeraj Maithani