योगिसर्वकारस्य नीतिभिः उत्तरप्रदेशस्य वस्त्रोद्योगः नवोन्नतिशिखराणि प्राप्नोति : राकेशसचानः
-उत्तरप्रदेशे वस्त्र उद्योगाय अमिलत् नूतनो विस्तारः, 5,354 कोटिरुप्यकाणां निवेशस्य प्रस्तावः अनुमतः लखनऊ, 08 सितंबरमासः (हि.स.)। उप्रस्य वस्त्रोद्योगमन्त्री राकेशसचानः अवदत् यत् योगिसर्वकारस्य नीतिभिः निवेशानुकूलवातावरणेन च प्रदेशे आधारभूतसंरचनाय
यूपी टेक्सटाइल कॉन्क्लेव में मुख्यमंत्री के साथ मंत्री राकेश सचान


-उत्तरप्रदेशे वस्त्र उद्योगाय अमिलत् नूतनो विस्तारः, 5,354 कोटिरुप्यकाणां निवेशस्य प्रस्तावः अनुमतः

लखनऊ, 08 सितंबरमासः (हि.स.)। उप्रस्य वस्त्रोद्योगमन्त्री राकेशसचानः अवदत् यत् योगिसर्वकारस्य नीतिभिः निवेशानुकूलवातावरणेन च प्रदेशे आधारभूतसंरचनायाः सह उद्योगानामपि नूतना गतिः प्राप्ता अस्ति। सः अवदत् यत् वित्तीयवर्षे २०२५-२६ तमे प्रदेशात् प्रायः पञ्चत्रिंशत्सहस्रकोटिरूप्यकाणां हस्तशिल्पनिर्यातः अभवत्, यदा तु द्विलक्षाधिकाः हस्ततन्तुवायाः अस्मिन् क्षेत्रे संलग्नाः सन्ति तथा च एकादशाधिकशतकोटिरूप्यकाणां निर्यातः क्रियते। सः अवदत् यत् उत्तरप्रदेशस्य वस्त्रोद्योगोत्पादानां राष्ट्रियस्तरे अन्तर्राष्ट्रीयस्तरे चापि विशिष्टा ख्यातिः प्राप्ता अस्ति।

पञ्चसहस्रत्रिशतचतुःपञ्चाशत्कोटिरूप्यकाणां निवेशप्रस्तावाः अनुमोदिताः

उत्तरप्रदेशवस्त्रोद्योगसम्मेलनस्य शुभारम्भावसरे राकेशसचानः मङ्गलवासरे अवदत् यत् प्रदेशे वस्त्रोद्योगस्य प्रोत्साहनार्थं सर्वकारः निरन्तरं निवेशकान् प्रोत्साहयति। अद्य पञ्चसहस्रत्रिशतचतुःपञ्चाशत्कोटिरूप्यकाणां निवेशप्रस्तावाः अनुमोदिताः सन्ति। वर्षे २०१७ तमे २०२२ तमे च प्रवर्तितानां वस्त्रोद्योगनीतीनां अन्तर्गतं प्रायः एकशतषोडश निवेशकेभ्यः द्वित्रिंशदधिकत्रिशतकोटिरूप्यकाणां प्रोत्साहनधनराशिः प्रदत्ता अस्ति। तदतिरिक्तं प्रायः षण्णवतिः कोटिरूप्यकाणां प्रोत्साहनधनराशिरपि प्रदत्ता अस्ति।

सः अवदत् यत् उद्यमिभ्यः पूँजी-अनुदानं, शतप्रतिशतं मुद्राङ्कशुल्कमुक्तिः, षष्टिप्रतिशतं ब्याजानुदानं च प्रदीयते। तदतिरिक्तं भूम्यावंटने विद्युत्सुविधायां च विविधाः रियायताः दीयन्ते। राष्ट्रियेषु अन्तर्राष्ट्रीयेषु च मेलासु भागं गृह्णद्भ्यः उद्यमिभ्यः नवतिप्रतिशतपर्यन्तं अनुदानं प्रदीयते।

प्रदेशस्य सप्तदश उत्पादेभ्यः जीआई-प्रमाणपत्रम्

मन्त्री अवदत् यत् गौतमबुद्धनगरे गाजियाबादे च परिधानक्षेत्रम्, कानपुरस्य होजरी-उद्योगः, वाराणस्याः रेशमसाटिका, भदोही-मिर्जापुरयोः कालीनाः, लखनऊस्य चिकनकारी, पिलखुवायाः गृहोपयोगिवस्त्राणि, मेरठस्य क्रीडापरिधानानि तथा फर्रुखाबादस्य वस्त्रच्छपाई च प्रदेशस्य परिचयस्य प्रतीकानि अभवन्। प्रदेशस्य सप्तदश उत्पादेभ्यः जीआई-प्रमाणपत्रं प्राप्तम् अस्ति।

योगिसर्वकारः वयनजीविभ्यः डिजाइन-निर्माणे, ब्राण्ड-निर्माणे, पैकेजिङ्गे तथा अङ्कीय-विपणने च साहाय्यं प्रददाति। वाराणस्यां चतुःशतत्रिचत्वारिंशत् विद्यार्थिभ्यः चतुरशीतिलक्षरूप्यकाणां वित्तीयसहायतां प्रदाय तेषां प्रगतये कार्यं कृतम् अस्ति। अनेन पारम्परिककौशलस्य आधुनिकविपणेन सह संयोजने साहाय्यं भविष्यति।

सहस्रैकडक्षेत्रमिते पीएम-मित्र-पार्क-उद्यानम्

राकेशसचानः अवदत् यत् लखनऊ-हरदोयोः मध्ये सहस्रैकडक्षेत्रफले पीएम-मित्र-पार्कः विकसितः क्रियते। अस्य कृते योगिसर्वकारः एकसहस्रशतकोटिरूप्यकाणि व्यययति। उद्याने षड्भिः पङ्क्तिभिः युक्ता मार्गव्यवस्था, एकशतपञ्चविंशत् केवी विद्युत्प्रवाहरेखा तथा जलापूर्तिव्यवस्था च उपलब्धा अभवन्। मुख्यविकासकर्तापि निर्धारितः अस्ति।

पञ्चस्थानेषु वस्त्रोद्योगपार्काय भूमिः

सः अवदत् यत् मुख्यमन्त्री योगी आदित्यनाथः प्रदेशे दश वस्त्रोद्योगपार्कानां विकासस्य लक्ष्यं निर्धारितवान् अस्ति। तदनुसारम् अमरोहा, बिजनौर, सन्तकबीरनगर, बरेली तथा वाराणसीषु शिल्पपार्कस्य कृते भूमिः उपलब्धा अभवत्। प्रायः चतुःशतैकडक्षेत्रे उद्यमिभ्यः निवेशस्य अवसरः प्राप्स्यते तथा विभागः तेभ्यः न्यूनदरेण भूमिं प्रदास्यति।

कानपुरं सहितेषु अन्येषु स्थानेषु वस्त्रनिर्माणपार्कस्य कृतेऽपि भूमिः चिह्निता क्रियते। सः अवदत् यत् २०२२ तमस्य वर्षस्य नीतिवत् २०२७ तमे वर्षे निर्मीयमाणायां नूतननीतावपि प्रदेशस्य उद्यमिनां सुझावाः समावेशिताः भविष्यन्ति।

पर्यटनस्य वर्धमानं क्षेत्रं पञ्चविंशतिकोटिजनसंख्यायुक्तं विशालं घरेलुविपणं च दृष्ट्वा वस्त्रोद्योगे तथा ओडीओपी-उत्पादेषु निवेशस्य महती सम्भावना अस्ति। अस्य कृते उद्यमिनः उत्तरप्रदेशे बृहद्प्रमाणेन निवेशाय आमन्त्रिताः।

Hindusthan Samachar / Dheeraj Maithani