Enter your Email Address to subscribe to our newsletters

उदयपुरम्, 08 सितंबरमासः (हि.स.)।
भाद्रपदकृष्णपक्षस्य द्वादशी तिथिः मङ्गलवासरे श्रद्धया, आस्थया, पारम्परिकोल्लासेन च वत्सद्वादशीरूपेण आचरिता। नगरे तद्-परिसरेषु च महिलाः प्रातः स्नानं कृत्वा व्रतम् आचरितवत्यः तथा विधिविधानपूर्वकं गोमातरं वत्सं च पूजितवत्यः। पूजासमये मातरः स्वसन्तानानां सुखसमृद्धिं, दीर्घायुष्यम्, निरामयजीवनं च कामितवत्यः। अयं पर्वः ‘बछबारस’ इत्यपि कथ्यते।
परम्परानुसारं महिलाभिः पूजापात्रं सुसज्जीकृत्य गोमातरं वत्सं च तिलकेन भूषितवन्तः, रोली-मौलीसूत्रं च बद्धम्। ततः श्रद्धापूर्वकं पूजनं कृत्वा आरतीः समर्पिताः तथा परिवारस्य सुखसमृद्ध्यर्थं प्रार्थना कृता। अनेकेषु स्थानेषु महिलाभिः सामूहिकरूपेण पारम्परिकानि वत्सद्वादशीगीतानि गीतानि, येन सम्पूर्णं वातावरणं भक्तिमयम् अभवत्। तत्र महिलाभिः पारम्परिककथानां श्रवणमपि कृतम्। अनन्तरं गृहेषु पुत्रेभ्यः तिलकं कृत्वा श्रीफलानि नेगं च दत्त्वा तेषां सुखसमृद्ध्यर्थं प्रार्थना कृता।
गृहेषु विशेषरूपेण अस्मिन् दिने छुरिकायाः प्रयोगः न क्रियते। छुरिकया छिन्नं खाद्यं न खाद्यते, न च तादृशः कश्चन व्यञ्जनविशेषः निर्मीयते, यस्य निर्माणाय छुरिकया छेदनम् आवश्यकं भवेत्। विशेषतः वत्सद्वादशीदिने मुद्गाः चणकाः च निर्मीयन्ते।
वत्सद्वादशी मातृत्वस्य, वात्सल्यस्य, गोसेवायाः च सम्बद्धः महत्त्वपूर्णः पर्वः मन्यते। धार्मिकमान्यतानुसारं अस्मिन् दिने गोमातरं वत्सं च पूजयित्वा सन्तानस्य जीवने सुखसमृद्धिः जायते तथा परिवारोपरि ईश्वरस्य कृपा चिरं तिष्ठति। पर्वणः अवसरे महिलाः परस्परं व्रतस्य पूजनस्य च शुभकामनाः दत्तवत्यः।
ग्रामीण-पारम्परिकपरिवेशे अस्य पर्वणः विशेषः सांस्कृतिकरङ्गः दृष्टः। गृहेषु पारम्परिकानि व्यञ्जनानि निर्मितानि तथा पूजनानन्तरं व्रतस्य पारणं कृतम्। वृद्धाभिः महिलाभिः नवपीढ्यै वत्सद्वादशीस्य परम्पराणां धार्मिकमहत्त्वस्य च विषये जानकारी प्रदत्ता।
वत्सद्वादशीपर्वणा पुनरेकवारं राजस्थानस्य तस्याः लोकपरम्परायाः दर्शनं कारितम्, यत्र धार्मिकास्थया सह प्रकृतिः, पशुधनम्, मातृत्वं, पारिवारिकसंस्काराः च परस्परं सम्बद्धाः दृश्यन्ते।
---------------
Hindusthan Samachar / Dheeraj Maithani