भारतस्य सार्वजनिकस्वास्थ्यसम्बद्धानाम् उपलब्धीनां वैश्विकस्तरे स्वीकृतिः प्राप्ता, विश्वस्वास्थ्यसङ्गठनेन भारतं सम्मानितम्।
नवदिल्ली, 08 सितंबरमासः (हि.स.)। भारतस्य सार्वजनिकस्वास्थ्यसम्बद्धानाम् उपलब्धीनां विश्वस्वास्थ्यसङ्घटनस्य दक्षिणपूर्व-एशिया-क्षेत्रीयसमित्याः एकोनाशीतितमे सत्रे महत्त्वपूर्णं सम्मानं प्राप्तम्। केन्द्रीयस्वास्थ्यमन्त्री जेपी नड्डा भारतस्य पक्षतः
पुरस्कार प्राप्त करते हुए केंद्रीय स्वास्थ्य मंत्री जेपी नड्डा


नवदिल्ली, 08 सितंबरमासः (हि.स.)।

भारतस्य सार्वजनिकस्वास्थ्यसम्बद्धानाम् उपलब्धीनां विश्वस्वास्थ्यसङ्घटनस्य दक्षिणपूर्व-एशिया-क्षेत्रीयसमित्याः एकोनाशीतितमे सत्रे महत्त्वपूर्णं सम्मानं प्राप्तम्। केन्द्रीयस्वास्थ्यमन्त्री जेपी नड्डा भारतस्य पक्षतः विश्वस्वास्थ्यसङ्घटनस्य दक्षिणपूर्व-एशिया-क्षेत्रीयसम्बद्धौ द्वौ प्रतिष्ठितौ पुरस्कारौ प्राप्तवान्।

पुरस्कारं स्वीकृत्य प्रसन्नतां प्रकटयन् जेपी नड्डा एक्स इत्यत्र उक्तवान् यत् भारतं विगतदशवर्षेभ्यः मातृ-नवजात-धनुर्वातस्य उन्मूलनं संरक्षितुं तथा प्राथमिकस्वास्थ्यसेवायाः माध्यमेन असंसर्गजन्यरोगाणां प्रभावी निवारणे नेतृत्वाय सम्मानितम्।

केन्द्रीयस्वास्थ्यमन्त्री उक्तवान् यत् प्रधानमन्त्री नरेन्द्रमोदिनः दूरदर्शिनः नेतृत्वे भारतं प्राथमिकस्वास्थ्यसेवानां सुदृढीकरणं कृतवान्, गुणवत्तापूर्णासु स्वास्थ्यसेवासु जनानां प्रवेशं वर्धितवान् तथा संसर्गजन्येषु असंसर्गजन्येषु च रोगेषु नियन्त्रणाय प्रभाविणः उपायान् स्वीकृतवान्। सः उक्तवान् यत् सर्वकारः प्रत्येकस्मै नागरिकाय उत्तमाः स्वास्थ्यसेवाः उपलब्धाः भवन्तु इत्यस्मिन् विषये प्रतिबद्धः अस्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani