फकीराग्रामे डॉ. भूपेनहजारिकस्य जयन्ती आचरिता
कोकराझारम् (असमः), ०९ सेप्टेम्बरमासः (हि.स.)। सम्पूर्णराज्येन सह कोकराझार-जनपदस्य फकीराग्रामेऽपि भारतरत्न-डॉ. भूपेनहजारिकस्य जयन्ती श्रद्धया सांस्कृतिककार्यक्रमैश्च सह आचरिता। फकीराग्रामस्थे शहीदवेदी-परिसरे सोमवासरे विलम्बितसायंकाले फकीरा-ग्राम-स्व
फकीराग्राम में भारत रत्न डॉ. भूपेन हजारिका की जयंती मनाई गई


फकीराग्राम में भारत रत्न डॉ. भूपेन हजारिका की जयंती मनाई गई


कोकराझारम् (असमः), ०९ सेप्टेम्बरमासः (हि.स.)। सम्पूर्णराज्येन सह कोकराझार-जनपदस्य फकीराग्रामेऽपि भारतरत्न-डॉ. भूपेनहजारिकस्य जयन्ती श्रद्धया सांस्कृतिककार्यक्रमैश्च सह आचरिता। फकीराग्रामस्थे शहीदवेदी-परिसरे सोमवासरे विलम्बितसायंकाले फकीरा-ग्राम-स्वर्णशाखा-साहित्यसभायाः तथा फकीराग्राम-कला-संस्कृतिविकास-मञ्चस्य संयुक्त-तत्त्वावधाने, भारतरत्न-डॉ. भूपेनहजारिका-जन्मशताब्दी-समारोहसमितेः आतिथ्ये च कार्यक्रमः आयोजितः।

कार्यक्रमस्य शुभारम्भः कोकराझार-जनपदसाहित्यसभायाः पूर्वाध्यक्षेण खनिनचन्द्ररायेण तथा फकीराग्राम-स्वर्णशाखा-साहित्यसभायाः अध्यक्षेन पीयूषचौधरिणा दीपप्रज्वालनेन कृतः। ततः कोकराझार-जिलासाहित्यसभायाः पूर्वसचिवेन कृष्णचन्द्रनाथेन तथा फकीराग्राम-कला-संस्कृति-विकासमञ्चस्य पूर्वाध्यक्षेण सचिवेन च ध्रुवकुमारमेधिना डॉ. भूपेनहजारिकस्य चित्रे माल्यार्पणं कृत्वा श्रद्धाञ्जलिः समर्पिता।

श्रद्धाञ्जलि-कार्यक्रमे जन्मशताब्दी-समारोहसमित्याः सचिवः कनकसूत्रधारः, फकीराग्राम-महाविद्यालयस्य सहाचार्यः डॉ. आदित्यचन्द्रडेका, डॉ. अनवारुलइस्लामः तथा फकीराग्राम-बालिकामध्य-अङ्ग्रेजी-विद्यालयस्य पूर्वप्रधानाचार्या अनिमादेवी च भागं गृहीत्वा सुधाकण्ठ-डॉ. भूपेनहजारिकायै श्रद्धाञ्जलिं समर्पितवन्तः।

अस्मिन् अवसरे फकीराग्राम-आञ्चलिक-छात्रसङ्घस्य महासचिवः दिपुनजीत-नारायणदेवः तथा फकीराग्राम-महाविद्यालयस्य सहायकाचार्यः डॉ. मनोरञ्जनरायः शहीदवेधौ दीपं प्रज्वालितवन्तौ। कार्यक्रमे छावामारी-पारिजात-नामदलेन नामकीर्तनमपि प्रस्तुतम्।

कार्यक्रमे फकीराग्राम-स्वर्णशाखा-साहित्यसभायाः, फकीराग्राम-कला-संस्कृतिविकासमञ्चस्य तथा जन्म-शताब्दी-समारोहसमित्याः पदाधिकारिणः सदस्याश्च उपस्थिताः आसन्। वक्तारः डॉ. भूपेनहजारिकस्य सङ्गीतस्य, मानवतावादीविचाराणां सामाजिकैकतायाः च सन्देशं नववंशं प्रति प्रसारयितुं आवश्यकता अस्ति इति बलं दत्तवन्तः।

Hindusthan Samachar / Divya Ranjan