अनिलकपूरस्य नूतनचलच्चित्रं  'सूबेदार'  इत्यस्य प्रथमा क्षणज्योतिः  समक्षीभूता
बॉलीवुड अभिनेता अनिलकपूरः अद्य मङ्गलवासरे स्वं 68तमं जन्मदिनं समाचरति। प्रशंसकाः अपि अनिल कपूराय जन्मदिनस्य वर्धापनानि यच्छन्ति। अनिल कपूरः तेभ्यः उपहाररूपेण अपि दत्तवान् यत् नूतनं चलच्चित्रं 'सूबेदार' इत्येतत् घोषयन्। तदीयां प्रथमा क्षणज्योति
सूबेदार


बॉलीवुड अभिनेता अनिलकपूरः अद्य मङ्गलवासरे स्वं 68तमं जन्मदिनं समाचरति। प्रशंसकाः अपि अनिल कपूराय जन्मदिनस्य वर्धापनानि यच्छन्ति। अनिल कपूरः तेभ्यः उपहाररूपेण अपि दत्तवान् यत् नूतनं चलच्चित्रं 'सूबेदार' इत्येतत् घोषयन्। तदीयां प्रथमा क्षणज्योतिं सामाजिक पटले प्रसारितवान्।

तदीयायाः क्षणज्योतेः अवधिः सप्तचत्वारिंशदुत्तरम् एकनिमेषात्मिका वर्तते। तदीयारम्भः गृहस्थचित्रणात् अस्ति , एकं गृहं जनैर्गृहीतं ये द्वारं नुदन्ति आरक्षकं बहिरागन्तुं निर्दिशन्ति । तदनु अनिल कपूरः दृश्यते यत् यस्मिन् सः हस्ते भुसुण्डीं धरन् आसंदे उपविष्टः अस्ति। तीक्ष्ण स्वरेण कथयति- 'सैनिकाः सन्नद्धाः । ' स्वं चलच्चित्रस्य 'सूबेदार इत्यस्य विज्ञापनं अनिल कपूरः सद्यः एवं जन्मदिने इंस्टाग्रामपटले प्रसारितवान्। तत्र उल्लिखितवान् यत् उत्तमकार्यस्य घोषणा शुभ दिने करणीया। सद्यः एव नूतनमिदं चलच्चित्रम् 'सूबेदार' इति आगमिष्यति।

तत्र तेन सह अभिनेत्री राधिका मदाना अपि मूख्यभूमिकायां वर्तते। निर्देशनं सुरेश त्रिवेणी प्रज्ज्वल चंद्रशेखरेण सह सम्मिल्य लिखितवान्। निर्माता विक्रम मल्होत्रा, सुरेश त्रिवेणी अनिल कपूरश्च अबुंदंतिया एंटरटेनमेंट, ओपनिंग इमेज अनिल कपूर फिल्म एंड कम्युनिकेशन नेटवर्क प्राइवेट लिमिटेड इत्यनयोः फलकस्य तले जातं निर्माणगतं कार्यम्। 'सूबेदार' इति चलच्चित्रं प्राइम वीडियो पटले प्रसारितं भविष्यति। एतावता तु प्रसारणतिथिः नैव उद्घोषिता।

हिन्दुस्थान समाचार / ANSHU GUPTA