Enter your Email Address to subscribe to our newsletters
नवादा, 25 दिसम्बरमासः (हि.स.)।जिल्लायां नारदीगंज आरक्षिस्थाने आरक्षिदलं एकं जनं बुधवासरे देशी कट्टा इत्यनेन सह गृहीतवत्।
प्रकरणेस्मिन् नारदीगंज आरक्षिस्थान परिसरे आयोजिते पत्रकारवार्तायां आरक्षिउपाधीक्षकः सुनील कुमारः प्रकरणं सविस्तरं प्रास्तौत्।
तेन कथितं प्रायः त्रिवादने गुप्त सूचना प्राप्ता यद् थाना क्षेत्रे ननौरा पंचायतस्य बरियो ग्रामे स्व.चमन महतोवर्यस्य 60 वर्षीयः पुत्रः राम खेलावन प्रसादः अस्ति तदीयसकाशे एका देशी भुसुंडी वर्तते।
सूचनाधारेण दलं गठितम् ।थानाध्यक्षं राजगृह प्रसादं समेत्य अन्यत् आरक्षि पदाधिकारीदलं सहयोगिभिः सह आरोपिणः गृहे परिक्षणगतप्रक्रिया विहिता। रामखेलावन प्रसादः भुसुंड्या सह गृहीतः।
आरोपितं विरुध्य आर्म्स एक्ट अंतर्गतं कांड संख्या 453/2024 अंकित्वा बुधवारे न्यायिके अभिरक्षणे प्रेषितः । अपराधी हत्यागतयोजनान्तर्गतं भुसुंडीक्रयणं विहितमिति अंगीकृतवान्।
------------
हिन्दुस्थान समाचार / ANSHU GUPTA