Enter your Email Address to subscribe to our newsletters
- प्रत्येकस्मिन् जनपदे एकस्य अस्थायी बस स्थानकस्य निर्माणं करिष्यते
लखनऊनगरम्, 24 दिसम्बरमासः (हि.स.)। महाकुम्भे आगंतुकेभ्यश्श्रद्धालुभ्यः सुविधाजन्या, सुगमा सुव्यवस्थित यात्रा प्रदातुं युक्तेन परिवहन विभागेन मेला क्षेत्रे प्रदर्शनी आपणाश्च प्रसारिताः परिवहन विभागस्य परतया महाकुम्भे आगंतुकेभ्यश्श्रद्धालुभ्यः परिवहनेन संबद्ध सूचना सरलया उपलब्धा भविष्यति । तत् अतिरिच्य , बस स्थानकस्य अंतः महाकुम्भेन संबंद्धानां धार्मिक गीतानां गायनं भवतिष्यति। अपिच चालकेभ्यः परिचालकेभ्यः च श्रद्धालुभिः सह मृदु व्यवहारं कर्तुं प्रशिक्षण व्यवस्था करिष्यते । इयं सूचना मंगलवासरे मीडियातः उप्र परिवहन राज्यमंत्री यत्री (स्वतंत्र प्रभारः) दयाशंकर सिंहः दत्तवान् । तेनोक्तं महाकुम्भे 2025 प्रायः 48 कोटिमिताः श्रद्धालवः प्राप्स्यन्ते इति तत्र संभावना वर्तते। अस्यां स्थितौ परिवहन विभागस्य दायित्वं अत्यंतं व्यापकम्। सड़क सुरक्षा जागरूकताभियानान्तर्गतं विभिन्न विद्यालयैः संस्थाभिः सह सम्पर्कं कृत्वा वीथिका नाटकानि अन्य सड़क सुरक्षा कार्यक्रमान् कर्तुं निर्देशः दत्तः।
महाकुम्भे आगन्तुक श्रद्धालुभ्यः विभागपरतया पाकेट पञ्चाङ्ग वितरणं, सड़क सुरक्षया संबद्ध आडियो - वीडियो प्रभृतिचलचित्राणि निर्माय प्रदर्शयितुं श्रावयितुं च निर्दिष्टम् । सममेव कथितं यत् महाकुम्भपरतया मुख्य मार्गाणां चिह्नीकरणं विधाय सड़क सुरक्षा कोषतः एलईडी स्क्रीनयुक्त पब्लिसिटी वैन माध्यमेन सड़क सुरक्षा नियमानां यातायात नियमानां च प्रचारः प्रसारः च करिष्यते । ट्रैक्टर, ट्राली सहितेषु समस्त वाहनेषु रिफलेक्टरयंत्रं योजनीयम्। एतद् अतिरिच्य मुख्य स्नानस्य दिने एक दिनात् पूर्वं परं च विभिन्न टोल प्लाजा प्रवर्तनम् अधिकारिणाम् आवागमनं निश्चितम्।
प्रत्येकस्मिन् जनपदे निर्मास्यते अस्थायी बस स्थानकं
परिवहनमन्त्री कथितवान् यत् जिला प्रशासनेन सह सम्पर्कं कृत्वा प्रत्येकस्मिन् जनपदे एकं अस्थायी बस स्थानकस्य निर्माणं करणीयम् । तत्र मुख्यद्वारे मार्गसुरक्षया संबद्धा जागरूकता प्रसारयिष्यते । चिह्नित स्थान हेतवे न्यूनतमम्,अधिकतमं मूल्यस्य निर्धारणेन संबद्धं फलकं योजनीयम्। तेन निर्दिष्टं यत् 2019 तः परं पंजीकृत कॉन्ट्रैक्ट कैरिज बसयानानां संचालनं करिष्यते। बस स्थानकस्य पार्श्वे परिवहन विभागस्य विज्ञापनं करिष्यते। सेल्फी प्वाइंट निर्मातव्यम् । येन महाकुम्भं प्रति आकर्षणं वर्धेत ।
गणवेशे द्रक्ष्यन्ते चालकाः परिचालकाश्च
परिवहनमन्त्री दूरवाणी–शौचालयः–पेयजलं चेत्यादीनां व्यवस्थायां, हेल्पडेस्क् गवाक्षं पब्लिक–एड्रेस–प्रणालीं च स्थापयितुं निर्दिष्टवान्। तेनोक्तं आटो, टैक्सी,बस यूनियन प्रभृतिपदाधिकारिभिः सह समन्वयं स्थापयित्वा निर्धारित गणवेशधारणेन संबद्धा सूचना दीयेत । सममेव नेत्र परीक्षणाय शिविराणाम् आयोजनम् ड्रंक-ड्राइविग इत्यस्य परीक्षणं स्यात्। आकस्मिक चिकित्सा हेतवे एकस्य एम्बुलेंस यानस्य व्यवस्था हेतवे मुख्यमंत्रिकार्यालयेन सह सम्पर्कः स्थापनीयः । सुरक्षित यात्रा हेतवे एलएचआई लोकनिर्माण विभाग इत्यनयोः समन्वयं स्थापयित्वा ब्लैक स्पाट संबंधे जागरूकता आनेतव्या।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA