Enter your Email Address to subscribe to our newsletters
नवदेहली, 26 दिसम्बरमासः (हि.स.)। अद्य मध्याह्नद्वादशवादने प्रधानमन्त्री नरेन्द्रमोदी नवीदिल्लीनगरस्य भारतमण्डपमे 'वीरबालदिवस' कार्यक्रमे भागं गृह्णीष्यति। साहिबजादा बाबा ज़ोरावर सिंह अपि च बाबा फतेह सिंह चेत्यनयोः स्मृतौ आयोजितस्य अस्य कार्यक्रमस्य समये प्रधानमन्त्री मोदी सुपषित–पञ्चायत–अभियानस्य शुभारम्भं करिष्यति। भारतसर्वकारस्य प्रेस-सूचना-ब्यूरो (PIB) इत्यनेन कार्यक्रमस्य पूर्वसंध्यायां प्रकाशितेन विज्ञप्तौ एतां सूचना दत्ता । भारतीयजनतापार्टी (भाजपादलेन) उभेऽपि सज्जनयोः कृते श्रद्धाञ्जलिम् अर्पितम्।
पीआईबी-विज्ञप्त्यानुसारं वीरबालदिवासः देशस्य भविष्यस्य आधारत्वेन बालकानां सम्मानार्थं राष्ट्रव्यापी कार्यक्रमः अस्ति । प्रधानमन्त्री मोदी अपि अस्मिन् अवसरे उपस्थितजनानाम् सम्बोधनं करिष्यति।
प्रधानमन्त्री मोदी अस्मिन् अवसरे सुपोषितपञ्चायत-अभियानस्य आरम्भं करिष्यन्ति। पोषणसम्बद्धसेवानां कार्यान्वयनं सुदृढं कृत्वा सक्रियसमुदायस्य सहभागिता सुनिश्चित्य पोषणपरिणामेषु कल्याणं च सुदृढं कर्तुम् अस्य उद्देश्यम् अस्ति। विज्ञप्तौ उक्तं यत् देशे सर्वत्र युवानां संलग्नतायै, अस्य दिवसस्य महत्त्वस्य विषये जागरूकतां जनयितुं, राष्ट्रं प्रति साहसस्य समर्पणस्य च संस्कृतिं प्रवर्धयितुं च अनेकाः उपक्रमाः अपि आरब्धाः भविष्यन्ति। MyGov अपि च My Bharat पटलयोः माध्यमेन अन्तरक्रियाशीलप्रश्नोत्तराणां श्रृङ्खला, ऑनलाइनप्रतियोगितानां च आयोजनं भविष्यति। विद्यालयेषु, बालसंरक्षणनसंस्थासु, आङ्गनबाडीकेन्द्रेषु च कथाकथनं, सृजनात्मकलेखनं, भित्तिफलकप्रतियोगितानां आयोजनं भविष्यति।
अस्मिन् कार्यक्रमे प्रधानमन्त्रिणः राष्ट्रियबालपुरस्कारस्य (PMRBP) पुरस्कारविजेतारः अपि उपस्थिताः भविष्यन्ति। अपरपक्षे भाजपादलेन वीरबालदिवसस्य अवसरे एक्स् इत्यस्मिन् सामाजिकपटले लिखितं यत्, धर्मस्य रक्षायै स्वबलिदानं दत्तवन्तौ वीरसाहिबजादेबाबाजोरावरसिंहः अपि च बाबाफतेहसिंहजी चेत्यनयोः हुतात्मदिवसे सादरं नमनम्।
---------------
हिन्दुस्थान समाचार