ऋषिसंस्कृतिः स्वास्थ्यस्य च संगमः अस्ति सूर्यनमस्कारस्य अभ्यासः : डॉ. अशोकः 
आयुषविभागेन आजनपदं सूर्यनमस्काराभियानं प्रचालितम्।
शनिवार झज्जर जिला के एक विद्यालय में सूर्य नमस्कार का अभ्यास करते विद्यार्थी।


झज्जरः, 18 जनवरी (हि.स.)। जिलायुर्वेदिकाधिकारी डॉ. अशोककुमारेण उक्तं यत् सूर्यनमस्कारस्य अभ्यास ऋषिसंस्कृतेः एवं स्वास्थ्यसंगमस्यास्ति , अतः सर्वैः नित्यं सूर्यनमस्कार: कर्तव्यः। एतत् दृष्ट्वा राज्यसर्वकारस्य योजनायाः अन्तर्गतं सम्पूर्णे मण्डले शैक्षणिकसंस्थासु अन्येषु च प्रतिष्ठानेषु सूर्यनमस्कारस्य अभ्यासः प्रचलति महर्षि दयानन्द सरस्वती जयंती दिनांक 12 फरवरी पर तथा च मण्डले उत्साहपूर्वक चलाया जाएगा।

जिला आयुर्वेद अधिकारी डॉ. अशोककुमारेण एवं जिलायोगसमन्वयक डॉ. पवनेन उक्तं यत् अस्य अभियानस्यान्तर्गतं शनिवासरमपि आयुषयोगसहायकद्वारा सर्वकारीनिजीविद्यालयच्छात्रैः सूर्यनमस्काराभ्यास: कृतः। एतत्क्रमे दिनांक 23 जनवर्यां विद्याभारतीविद्यालयबेरीपरिसरे बलदेवयोगविशेषज्ञ: बलदेवस्य अध्यक्षतायां सूर्यनमस्कारस्य अभियानस्य जनपदस्तरीयकार्यक्रमस्यायोजनं करिष्यते। एतदभियानाभ्यन्तरं प्रत्येककार्यक्रमे आयुषयोगसहायकैः भारतीयकृषिसंस्कृति:, ऋषिसंस्कृति:, स्वामीविवेकानंद:, नेताजीसुभाषचंद्रबोस:, पंडितरामप्रसाद:, लालालाजपतराय:, लालाहरदयाल:, स्वामीश्रद्धानंद:, रानीलक्ष्मीबाई, महर्षिजीवनसम्बद्धविषयाध्यापनं कारयिष्यते। येन वयं अस्माकं ऋषीणां स्वातन्त्र्यसेनानानां च उच्चादर्शान् रक्षित्वा आगामिषु पीढिषु स्थापयितुं शक्नुमः। सः अवदत् यत् सूर्यनमस्कारस्य माध्यमेन श्वसनस्य नियन्त्रणेन आहत्य १२ आसनानाम् अभ्यासः भवति, येन अस्माकं मस्तिष्कं, हृदयं, समग्रशरीरस्य मांसपेशीः च सुदृढाः भवन्ति, अस्माकं बुद्धेः कार्याणि च सुदृढाः भवन्ति।

तेन उक्तं यत् सूर्य नमस्कारे प्रणाम: आसनम्, हस्तोतानासनम्, पादहस्त-आसनम्, अश्वसंचालनम्, पर्वत-आसनम्, अष्टांगनमस्कार: भुजंगासनम्, पर्वत-आसनम्, अश्वसंचालनम्, पादहस्त-आसनम्, हस्त-उतानआसनम्, प्रणाम-आसनञ्च अन्तर्भवति।

हिन्दुस्थान समाचार / ANSHU GUPTA