मुख्यमंत्री विष्णुदेवसायः रतनपुरमहामायामंदिरे पूजार्चनां कृतवान्
रायपुरम्, 1 अक्टूबरमासः (हि.स.)। शारदीय नवरात्रि पावनावसरे, मुख्यमंत्री विष्णुदेवसायः मङ्गलवासरे रात्रौ विलासपुरजनपदस्य रतनपुरे ऐतिहासिकमहामायामन्दिरे गतः। तेन मातरः महामायायाः दर्शनं कृतम्। सः प्रदेशवासिनां सुख-समृद्धि च सौभाग्यं च कामयामास। मुख्यम
मुख्यमंत्री साय रतनपुर महामाया मंदिर में   पूजा अर्चना करते हुए


रायपुरम्, 1 अक्टूबरमासः (हि.स.)। शारदीय नवरात्रि पावनावसरे, मुख्यमंत्री विष्णुदेवसायः मङ्गलवासरे रात्रौ विलासपुरजनपदस्य रतनपुरे ऐतिहासिकमहामायामन्दिरे गतः। तेन मातरः महामायायाः दर्शनं कृतम्। सः प्रदेशवासिनां सुख-समृद्धि च सौभाग्यं च कामयामास।

मुख्यमंत्री सायः मन्दिरप्राङ्गणे दर्शने आगतैः श्रद्धालूभिः सह आत्मीयं मेलनं कृत्वा तान् नवरात्रिपर्वस्य हार्दिकाशुभकामनाः अयच्छत् ।

अस्मिन् अवसरे, विधायकः सुशान्तशुक्लः, जिलापञ्चायताध्यक्षः राजेशसूर्यवंशी, जिलाध्यक्षः दीपकसिंहठाकुरः, कलेक्टरः संजयअग्रवालः, वरिष्ठआरक्षकाधिक्षकः रजनेशसिंहः, महामायाट्रस्टस्य पदाधिकारीः च, श्रद्धालूनां महती संख्या च उपस्थितास्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता