कोरबा : जिलायाः मदिराविपण्यो गांधी जयंत्याः अवसरे पिधास्यन्ते, द्वितीय अक्टूबर दिनाङ्कः शुष्क दिवसो घोषितः
कोरबा, 01 अक्टूबरमासः (हि. स.)।गान्धी-जयन्ती-उत्सवस्य अवसरे प्रत्येकं ०२ अक्टोबर्-दिने जनपदस्य सर्वाः मदिरा-विपण्यः निरुद्धाः भविष्यन्ति। कलेक्टर् अजीत् वसन्तेन ०२ अक्टोबर् गान्धी-जयन्ती-उपलक्ष्ये शुष्क-दिवसः घोषितः। ०२ अक्टोबर् गुरुवासरे जनपदे प्रवर
फाइल फोटो


कोरबा, 01 अक्टूबरमासः (हि. स.)।गान्धी-जयन्ती-उत्सवस्य अवसरे प्रत्येकं ०२ अक्टोबर्-दिने जनपदस्य सर्वाः मदिरा-विपण्यः निरुद्धाः भविष्यन्ति। कलेक्टर् अजीत् वसन्तेन ०२ अक्टोबर् गान्धी-जयन्ती-उपलक्ष्ये शुष्क-दिवसः घोषितः। ०२ अक्टोबर् गुरुवासरे जनपदे प्रवर्तमानाः सर्वाः देशी-विदेशी-मदिरा-दुकानाः, प्रीमियम्, कम्पोजिट्-मदिरा-विपण्यः, एफ्.एल्.-३, एफ्.एल्.-३ क, अहाताः च सम्पूर्णतया निरुद्धाः भविष्यन्ति।

अधिकारी अजीत् वसन्तः निर्देशं दत्तवान् यत्—मदिरा-निषेध-दिनात् पूर्वं निर्धारित-समयानन्तरं मदिरा-दुकानानि सीलबद्धानि कर्तव्यानि। अपि च मदिरा-निषेध-दिने अवैध-मदिरा-विक्रयः मा भूयात् इति सुनिश्चितं कर्तुं अधिकारिणः प्रयत्नं कुर्वन्तु

---------------

हिन्दुस्थान समाचार