सर्वे अधिकारिणो नियमस्य दायित्वानुसारं कार्यं कुर्यात् : मुख्य सचिवो विकासशीलः
रायपुर, 1 अक्टूबर (हि.स.)।छत्तीसगढराज्ये नूतननियुक्तः भा.प्र.से. अधिकारी विकासशीलः मुख्यसचिवपदभारं स्वीकृत्य तत्क्षणमेव नूतनकार्यपद्धतेः संकेतं दत्तवान्। मंगलवासरस्य सायं विलम्बे सः अवदत्—“सर्वे अधिकारीणः नियमानां परिधौ स्थित्वा एव कार्यं कुर्वन्तु।”
छत्तीसगढ़ के नवनियुक्त आईएएस विकासशील


रायपुर, 1 अक्टूबर (हि.स.)।छत्तीसगढराज्ये नूतननियुक्तः भा.प्र.से. अधिकारी विकासशीलः मुख्यसचिवपदभारं स्वीकृत्य तत्क्षणमेव नूतनकार्यपद्धतेः संकेतं दत्तवान्। मंगलवासरस्य सायं विलम्बे सः अवदत्—“सर्वे अधिकारीणः नियमानां परिधौ स्थित्वा एव कार्यं कुर्वन्तु।” अस्मिन् विषये शीघ्रमेव सर्वे जिलाधिपाः विभागीयसचिवाश्च सन्देशेन अवगम्यन्ते इति च उक्तवान्। “नियमव्यवस्थायां स्थित्वा यः अधिकारी कार्यं करिष्यति, तस्मिन् कश्चन विघ्नः न भविष्यति।” इति अपि तेन अभिहितम्।

नूतनः मुख्यसचिवः विकासशीलः अवदत्—“राज्यस्य प्राथमिकाः निश्चित्य कार्ययोजना कृत्या कार्यं करिष्यते। अस्मिन् विषये सर्वे शीघ्रं सूचिताः भविष्यन्ति। छत्तीसगढराज्यस्य विजन् 2047 सफलं कर्तुं या या प्राथमिकाः भविष्यन्ति, तासां विषये निर्णयः भविष्यति।” अपि च राज्यस्य सर्वाः महत्त्वाकाङ्क्षायुक्ताः योजनाः यथावत् भूमिसोपानेषु क्रियावलीं प्राप्नुयुः, योजनानां लाभः राज्यस्य अन्त्यव्यक्तेः पर्यन्तं प्राप्नुयात्, इत्यस्मिन् दिशि विशेषः प्रयत्नः करिष्यते।

मुख्यसचिवः विकासशीलः अवदत्—“छत्तीसगढे मुख्यसचिवपदं मम कृते गृहनिवृत्तिः इव। संवत्सरे २०१८ अहं यदा केन्द्रीयप्रतिनियुक्तिं गतः, तदा पुनरागमनस्य आशा न्यूनाभूत्। किन्तु छत्तीसगढ-शासनस्य मुख्यमन्त्रिणः विष्णुदेवसायस्य च प्रयासैः अद्य राज्यस्य मुख्यसचिवरूपेण पदभारं स्वीकृतवानस्मि।” सः अपि उक्तवान्—“यत्केन्द्रराज्ययोः कार्यप्रणाल्यः भिन्नाः। अत्र स्थानीयपरिस्थितिं दृष्ट्वा एव कार्यं करिष्यते। अस्माकं प्रयत्नः एषः भविष्यति यत् यथाशक्ति अधिकेभ्यः जनसमूहभ्यः योजनायाः लाभः प्राप्येत।”

तथैव सः अवदत्—“आगामिदिनेषु छत्तीसगढे राज्योत्सवस्य महत् आयोजनं भविष्यति, यस्मिन् प्रधानमन्त्रि नरेन्द्रमोदी मुख्यातिथिरूपेण सहभागिता करिष्यन्ति। अस्मिन् विषये अपि सज्जा आरब्धा भविष्यति।”

सः अपि स्पष्टीकृतवान्—“कार्यव्यवस्थायाः संचालनं यैः नियमकानूनैः विधीयते, तत्र मुख्यसचिवस्य विशेषा भूमिका भवति। किन्तु नियमात् पराङ्मुख्य किमपि प्रयोगं मुख्यसचिवः न कर्तुं शक्नोति। अधिकारीणां कृते उत्तमः कार्यपर्यावरणः सृज्येत, तेषां विचाराः यथोचितं क्रियायोग्याः कृताः स्युः—एवं सर्वतोभ्यः प्रयत्नः करिष्यते।”

हिन्दुस्थान समाचार