इण्डिगो-विमानसेवा नवम्बरमासस्य दशमदिनाङ्कात् दिल्ली–ग्वाङ्गझौ (चीन) मध्ये प्रत्यक्षविमानसेवा आरक्ष्यति
दिसम्बरमासस्य विंशतितमदिनाङ्कात् दिल्ली–हनोई मध्ये अपि प्रत्यक्षसेवा आरभ्यते नवदिल्ली, 11 अक्टूबरमासः (हि.स.)।भारते किफायती-विमानपरिवहनसेवा प्रदात्री इण्डिगो-विमानसेवा संस्थया शनिवासरे दिल्ली–चीनदेशस्य ग्वाङ्गझौ-नगरयोः मध्ये नित्यं प्रत्यक्षविमानय
इंडिगो एयरलाइन के लोगो का प्रतीकात्‍मक चित्र


दिसम्बरमासस्य विंशतितमदिनाङ्कात् दिल्ली–हनोई मध्ये अपि प्रत्यक्षसेवा आरभ्यते

नवदिल्ली, 11 अक्टूबरमासः (हि.स.)।भारते किफायती-विमानपरिवहनसेवा प्रदात्री इण्डिगो-विमानसेवा संस्थया शनिवासरे दिल्ली–चीनदेशस्य ग्वाङ्गझौ-नगरयोः मध्ये नित्यं प्रत्यक्षविमानयात्रा आरम्भनीयेत्यघोष्यत। एषा सेवा नवम्बरमासस्य दशमदिनात् आरभ्यिष्यते।

संस्था अपि उद्घोषितवती यत् डिसेम्बरमासस्य विंशतितमदिनात् (२० डिसेम्बर २०२५) दिल्ली–हनॊई-नगरयोः मध्ये अपि नित्यप्रत्यक्षविमानसेवा प्रारभ्यते।

इण्डिगो-संस्था इत्यनेन निवेदितं यत्, एतयोः नूतनयोः मार्गयोः विमानपरिवहनाय एयरबस A320 प्रकारस्य विमानम् उपयुज्यते। एषः प्रयत्नः प्रायः पञ्चवर्षपर्यन्तं अन्तरालानन्तरं भारत–चीनयोः मध्ये वैमानिकसम्पर्कस्य पुनःस्थापनाय एकः महत्वपूर्णः चरणः मन्यते। अस्य फलतः एशियायाः द्वयोः शीघ्रं विकसमानयोः अर्थव्यवस्थयोः राजधानीनगरयोः मध्ये सम्यक् सम्पर्कः संवर्धिष्यते।

विदेशमन्त्रालयेन यदा भारत–चीनयोः मध्ये प्रत्यक्षविमानयात्राः पुनरारभ्यन्ते इति प्रमाणीकृतम्, तदनन्तरमेव इण्डिगोया एते घोषणाः कृताः। अस्य घटनाक्रमस्य उभयदेशीयपक्षाभ्यां कोविड्–१९ महामारी च डोकलाम्–सङ्कटस्य अनन्तरं सामान्यसम्बन्धानाम् पुनरुत्थानाय महत्त्वपूर्णः कदमः इति अभिप्रेतम्।

एतेन सह इण्डिगोया उद्घोषितम् यत् २० डिसेम्बरात् दिल्ली–हनॊई मध्ये प्रतिदिनं प्रत्यक्षविमानसेवा आरभ्यते। भारतस्य प्रमुखया प्रियया च विमानसंस्था इण्डिगो एतस्मिन् मार्गे अपि एयरबस् A320 विमानम् एव परिचालयिष्यति, येन भारतस्य राजधानीत: आगत्य दक्षिणपूर्वएशियायाः प्रमुखसांस्कृतिकव्यापारिककेंद्रं हनोई इत्यस्य प्रति निरवधिसम्पर्कः सुलभः भविष्यति।

इण्डिगो संस्था सम्प्रति कोलकाता–हनॊई–हो-ची-मिन्-सिटी इत्येतयोः नगरयोः मध्ये चतुर्दशसाप्ताहिकविमानयात्राः सञ्चालयति।

हिन्दुस्थान समाचार / अंशु गुप्ता