राष्ट्रियकनिष्ठ-एथलेटिक्स-प्रतियोगितायाम् — हिमांशुः जाखडः नीरजचोपडा इत्यस्य अभिलेखं भञ्जितवान्
भुवनेश्वरः, 11 अक्टूबरमासः (हि.स.)। एशियाई अण्डर-१८ चेम्पियन हिमांशुः जाखड़ः शुक्रवासरे कलिंगा-स्टेडियमे सञ्चालिते राष्ट्रियकनिष्ठ-एथलेटिक्स-प्रतियोगितायाम् प्रसिद्ध कुन्त-क्षेपक नीरजचोपडा इत्यस्य ११ वर्षं प्राचीनं -अभिलेखं भञ्जितवान्। एतस्मिन् उ
नीरज चोपड़ा के स्थान हिमांशु


भुवनेश्वरः, 11 अक्टूबरमासः (हि.स.)। एशियाई अण्डर-१८ चेम्पियन हिमांशुः जाखड़ः शुक्रवासरे कलिंगा-स्टेडियमे सञ्चालिते राष्ट्रियकनिष्ठ-एथलेटिक्स-प्रतियोगितायाम् प्रसिद्ध कुन्त-क्षेपक नीरजचोपडा इत्यस्य ११ वर्षं प्राचीनं -अभिलेखं भञ्जितवान्। एतस्मिन् उत्कृष्ठे प्रदर्शनसहित हिमांशुः २०२६ विश्व-अण्डर-२० चेम्पियनशिपाय अपि योग्यता प्राप्तवान्।

सऊदी-अरबदेशे अप्रिल्-मासे आयोज्यायाम् एशियाई-चेम्पियनशिपे ६७.५७ मीटर् थ्रो कृत्वा सुवर्णपदकं प्राप्नोत्तः हिमांशुः अद्य अतीव परिष्कारं प्रदर्शयन् पुरुष-अण्डर-१८ क्वालिफिकेशन-राउण्डे ७९.९६ मीटर् थ्रो सम्पादितवान्। एषः केवलं विश्व-अण्डर-२० क्वालिफिकेशन-मार्क् (६८.५० मीटर्) तुल्यं न केवलम्, किन्तु नीरजचोपरस्य २०१४ विजयवाडा-स्थानि निर्मितस्य ७६.५० मीटर् अभिलेखात् अपि ३ मीटर् अधिकः अभवत्।

एतेषु प्रतियोगितासु मोहितः चौधरी अण्डर-२० पुरुष-५,००० मीटर् क्रमे १४:०९.७१ सेकेन्ड् समयेन नूतनं मीट्-अभिलेखं स्थापयत। तथा ऐलिस् विकल् अण्डर-१६ कन्याः शॉट-पुट् क्वालिफिकेशनमध्ये १३.२६ मीटर् थ्रो कृत्वा अल्का-सिंहस्य राष्ट्रिय-अभिलेखं (१३.१० मीटर्) अतिक्रान्तवती।

एतत् प्रदर्शनं भारतस्य जूनियर-एथलीटानां उत्कर्षस्य स्पष्टं संकेतं दत्ते, यैः अन्तर्राष्ट्रीय-स्तरे भारतस्य कृते नवीनाः आशाः प्रज्वलन्ति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता