प्रधानमन्त्री मोदी ख्वाजानिज़ामुद्दीन औलिया इत्यस्य ७२२तमस्य उर्स्- निमित्तम् अभिनन्दनसन्देशं प्रेषितवान्
नवदेहली, 11 अक्टूबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रः मोदी नामधेयः सूफीसन्तः हजरत् ख्वाजा निजामुद्दीन औलिया इत्यस्य ७२२तमस्य उर्स्-मुबारक् अवसरस्य निमित्तं तस्य अनुयायिभ्यः अभिनन्दन-सन्देशं प्रेषितवान्। प्रधानमन्त्रिणा स्वसन्देशे सर्वेभ्यः आह्व
हजरत ख्वाजा निजामुद्दीन औलिया  के 722


नवदेहली, 11 अक्टूबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रः मोदी नामधेयः सूफीसन्तः हजरत् ख्वाजा निजामुद्दीन औलिया इत्यस्य ७२२तमस्य उर्स्-मुबारक् अवसरस्य निमित्तं तस्य अनुयायिभ्यः अभिनन्दन-सन्देशं प्रेषितवान्।

प्रधानमन्त्रिणा स्वसन्देशे सर्वेभ्यः आह्वानं कृतम् यत् सर्वे अपि हजरत् ख्वाजा निजामुद्दीन औलिया इत्यनेन निर्दिष्टमार्गेण चलन्तु इति।

प्रधानमन्त्रिणा सन्देशे उक्तम् यत् ज्ञानकरुणाध्यात्मिकता-समन्विताः सूफी-सन्ताः समाजे भ्रातृत्वं सौहार्दं सद्भावनां च संवर्धयितुं महत्त्वपूर्णां भूमिकां वहन्ति। तेषां विचाराः कलाकाव्यसंगीतचिन्तनादि माध्यमेन अनेकान् पीडितान् निरन्तरं प्रेरितवन्तः। अस्मिन् श्रेण्यां अत्यन्तं श्रद्धया आदरेण च स्मर्यमाणः हजरत् निजामुद्दीन औलिया नामधेयः स्वजीवनं प्रेम-एकतादयाप्रसारार्थं समर्पितवान्। एषः उत्सवः तस्य जीवनस्य विचाराणां च अंगीकारस्य अवसरं प्रदत्ते।

प्रधानमन्त्रिणा उक्तम् यत् तस्य शिक्षाः अद्यापि प्रासंगिकाः सन्ति, जनजनं च आध्यात्मिकता-मानवता-साझामूल्यैः योजयन्ति। सः अवदत्—“अहं हजरत् निजामुद्दीन औलिया इत्यस्य ७२२तमस्य उर्स्- अवसरस्य निमित्तं तं नमामि।”

उल्लेखनीयम् यत् हजरत् निजामुद्दीन औलिया इत्यस्य ७२२तमः उर्स्- उत्सवः देहल्यां बस्ति-निजामुद्दीन्-स्थिते तस्य दरगाहप्राङ्गणे आचर्यते, यत्र देश-विदेशाभ्यागताः श्रद्धालवः सम्पूर्णया अकीदता-एहतराम्-संयुताः स्वश्रद्धासुमनः अर्पयितुं आगच्छन्ति।

एषः हजरत् ख्वाजा इत्यस्य उर्स्-उत्सवः १३ अक्टूबरमासस्य दिनाङ्कपर्यन्तम् आचर्यिष्यते।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता