मुख्यमंत्री सायः अद्य आयोजयिष्यति अधिकारिणामुपवेशनम्
रायपुरम् 12 अक्टूबरमासः (हि.स.)।छत्तीसगढ़राज्यस्य मुख्यमन्त्री विष्णुदेवः सायः इत्यस्य अध्यक्षतायां अद्य रविवासरे प्रातः 10.30 वादने नव-रायपुरस्थे मंत्रालये (महानदीभवने) कलेक्टर-सम्मेलनम् आयोजितं भविष्यति। अस्मिन् महत्वपूर्णे सभासमये सर्वे विभागी
मुख्यमंत्री विष्णुदेव साय


रायपुरम् 12 अक्टूबरमासः (हि.स.)।छत्तीसगढ़राज्यस्य मुख्यमन्त्री विष्णुदेवः सायः इत्यस्य अध्यक्षतायां अद्य रविवासरे प्रातः 10.30 वादने नव-रायपुरस्थे मंत्रालये (महानदीभवने) कलेक्टर-सम्मेलनम् आयोजितं भविष्यति।

अस्मिन् महत्वपूर्णे सभासमये सर्वे विभागीयसचिवाः, संभागायुक्ताः, कलेक्टरोऽपि उपस्थिताः भविष्यन्ति। अधिकारिसम्मेलने शासकीययोजनानां क्रियान्वयनम्, सुशासनस्य स्थिति:, जनसेवायाः गुणवत्ता च इत्येषां विषये समीक्षा करिष्यते।

उल्लेखनीयं यत् अस्याः कलेक्टर-सम्मेलनस्य अवसरे जनपदेषु आयोजितेषु रजतजयंती-समारोहेषु, शासकीययोजनानां क्रियान्वयने, सुशासनस्य स्थितौ, जनसेवायाः गुणवत्तायां च विशेषसमीक्षा करिष्यते।

विशेषतः मुख्यमन्त्रिणः प्राथमिकायोजनानां प्रवर्तनं तथा तत्सम्बद्धस्य भूमिस्थरप्रभावस्य मूल्याङ्कनम् अपि कृतं भविष्यति।

हिन्दुस्थान समाचार