मुख्यमंत्री प्रसिद्ध तीर्थ क्षेत्रे महुड्यां भगवतो घंटाकर्णस्य अकरोत् दर्शन-पूजनम्
गांधीनगरम्, 12 अक्टूबरमासः (हि.स.)।मुख्यमन्त्री श्री भूपेन्द्र पटेलः रविवासरे सुप्रसिद्धे जैनतीर्थे महुड्यां जिनालये भगवतः घंटाकर्णस्य आरतीं पूजनञ्च कृत्वा राज्यस्य सुखसमृद्ध्यै प्रार्थनां कृतवन्तः। राज्यसूचनाविभागेन स्वबयानमध्ये प्रतिपादितम् यत्
मुख्यमंत्री महुड़ी में भगवान घंटाकर्ण का दर्शन करते हुए


गांधीनगरम्, 12 अक्टूबरमासः (हि.स.)।मुख्यमन्त्री श्री भूपेन्द्र पटेलः रविवासरे सुप्रसिद्धे जैनतीर्थे महुड्यां जिनालये भगवतः घंटाकर्णस्य आरतीं पूजनञ्च कृत्वा राज्यस्य सुखसमृद्ध्यै प्रार्थनां कृतवन्तः।

राज्यसूचनाविभागेन स्वबयानमध्ये प्रतिपादितम् यत् मुख्यमन्त्री श्री भूपेन्द्र पटेलः राज्ये सञ्चाल्यमाने विकाससप्ताहस्य उत्सवे, गांधीनगरजिले विकासरथस्य प्रस्थानाय महुड्यां उपस्थिताः। अस्मिन्काले ते महुड्यां तीर्थे भगवतः घंटाकर्णस्य दर्शनं कृतवन्तः। भगवतः घंटाकर्णस्य आरतीं पूजनञ्च कृत्वा राज्यस्य सर्वजनानां सुखसमृद्ध्यै, शान्त्यै च विकासाय च प्रार्थनां कृतवन्तः।

---------------

हिन्दुस्थान समाचार