Enter your Email Address to subscribe to our newsletters
भोपालम्, 12 अक्टूबरमासः (हि.स.)।मध्यप्रदेशराज्यस्य मुख्यमन्त्री डॉ॰ मोहन यादवः अद्य रविवासरे भोपालनगरस्थे मानस भवन-नामके स्थले प्रातः दशवादने “समरसतासम्मेलने” भागं ग्रहीष्यति। महर्षेः वाल्मीकिनः जयंती-प्रकटोत्सवस्य पावने अवसरस्मिन् अनुसूचितजातिकल्याणविभागेन एषः समरसतासम्मेलनः आयोजितः अस्ति।
सम्मेलने राज्यसभासदः श्रीक्षेत्र-वाल्मीकि-धाम-उज्जैनस्य पीठाधीश्वरः बालयोगी उमेशनाथमहाराजः विशेषरूपेण उपस्थितः भविष्यति।जनसम्पर्कअधिकारिणा जूही श्रीवास्तव इत्यनेन ज्ञापितं यत्, अनुसूचितजातिकल्याणविभागेन आयोजितस्य अस्य समरसतासम्मेलनस्य उद्देश्यः सामाजिकसमरसतायाः संवर्धनं, महर्षेः वाल्मीकिनः आदर्शान् जनजनपर्यन्तं प्रचारयितुं च समाजे ऐक्यं समन्वयं च प्रोत्साहयितुम् अस्ति।
तया अपि उक्तं यत्, अस्मिन् सम्मेलने क्रीडायुवकल्याणमन्त्री विश्वासः कैलाशः सारङ्गः, अनुसूचितजातिकल्याणमन्त्री नागरसिंहः चौहानः, पश्चाद्वर्ग-अल्पसंख्यककल्याणराज्यमन्त्री (स्वतन्त्रप्रभार) कृष्णा गौर, सांसदः आलोकः शर्मा, विधायकाः रामेश्वरः शर्मा, विष्णुः खत्री, भगवानदासः सबनानी च, तथा भोपालनगरस्य महापौरः मालती राय, नगरनिगमाध्यक्षः किशनः सूर्यवंशी च उपस्थिताः भविष्यन्ति।
हिन्दुस्थान समाचार