Enter your Email Address to subscribe to our newsletters
लखनऊ, 12 अक्टूबरमासः (हि.स.)।शताब्दीवर्षस्य उपलक्ष्ये राष्ट्रियस्वयंसेवकसङ्घस्य पक्षतः उत्तरप्रदेशराज्यस्य राजधानी लखनौ-नगरमध्ये बस्तीस्तरेण पथसञ्चलनकार्यक्रमाः आयोजिताः। अस्यां श्रृंखलायाम् अद्य रविवासरे लखनौ-जिले पञ्चाशदधिकेषु स्थानेषु पथसञ्चलनं सम्पन्नम्।
विभिन्नबस्तीनां पथसञ्चलनकार्यक्रमेषु सङ्घस्य प्रान्त-क्षेत्रस्तरीयपदाधिकारिणः स्वयंसेवकान् प्रति मार्गदर्शनं दत्तवन्तः।पूर्व-उत्तरप्रदेश-क्षेत्रस्य क्षेत्रप्रचारकः अनिलः नामधेयः लखनौ-पश्चिमभागस्य रामनगरस्थितायां चन्द्रशेखरबस्त्याम् आयोजिते पथसञ्चलने उपस्थितः आसीत्।
अस्मिन् अवसरे क्षेत्रप्रचारकेन “पञ्चपरिवर्तन-विषयान् हृदयंगम्य समाजमध्ये प्रेषयितुं” कार्यकर्तॄन् आहूतवान्।स्वयंसेवकान् संबोध्य सः अवदत्यत्“पूर्वं जनाः स्वं हिन्दु इति वक्तुं लज्जां अनुभवन्ति स्म; अद्य तु समाजे जनाः स्वं हिन्दु इति कथयन्तः गौरवबोधं कुर्वन्ति।अयोध्यायां रामजन्मभूमिस्थले चिकित्सालयं वा अन्यं स्मारकं वा स्थापयितुमिच्छन्तः अपि अद्य गर्वेण एव स्वं हिन्दु इति वदन्ति।”क्षेत्रप्रचारकेन अपि उक्तं यत्स्वामी विवेकानन्देन उक्तं यत्, यदि शतसंन्यासिनः मम समीपे स्युः तर्हि अहं भारतं परिवर्तनं करिष्यामि। तेषां समीपे तादृशाः युवानः न प्राप्ताः, किन्तु डा. हेडगेवारः सहस्रशः ऊर्जावन्तः युवान् प्राप्तवान्, ये भारतमातुः सेवायां निरताः सन्ति।
अस्मिन् अवसरे लखनऊ-पश्चिमभागस्य भागसङ्घचालकः गुरुमिलनः, पूर्वदर्जाप्राप्तमन्त्री प्रकाशमिश्रः, निखिलः च अञ्जनीश्रीवास्तवः च प्रमुखतया उपस्थिताः आसन्।
--------------
हिन्दुस्थान समाचार