केन्द्रीय मंत्री शिवराज सिंहोऽद्य विदिशा जिलायाः प्रवासे , विभिन्न कार्यक्रमेषु भविष्यति सम्मिलितः
भोपालम्, 12 अक्टूबरमासः (हि.स.)।केन्द्रीयकृषिः किसानकल्याणं ग्रामीणविकासं च इति विभागानां मन्त्री शिवराजसिंहः चौहानः अद्य रविवासरे मध्यप्रदेशस्य विदिशाजिलायां प्रवासे भविष्यति। अस्यां यात्रायां सः जिलेमध्ये आयोजितेषु विविधेषु कार्यक्रमेषु सहभागी भव
शिवराज सिंह चौहान


भोपालम्, 12 अक्टूबरमासः (हि.स.)।केन्द्रीयकृषिः किसानकल्याणं ग्रामीणविकासं च इति विभागानां मन्त्री शिवराजसिंहः चौहानः अद्य रविवासरे मध्यप्रदेशस्य विदिशाजिलायां प्रवासे भविष्यति। अस्यां यात्रायां सः जिलेमध्ये आयोजितेषु विविधेषु कार्यक्रमेषु सहभागी भविष्यति।

निर्धारितकार्यक्रमानुसारं केन्द्रीयमन्त्री चौहानः प्रातः 10.30 वादने भोपालनगरात् प्रस्थित्य द्वादशात् पूर्वं 11.30 वादने विदिशां प्राप्स्यति। तत्र विट्ठलनगरस्थे “अपनाघर आश्रमे” आयोजिते कार्यक्रमे सम्मिलिष्यते।

ततः परं सः मध्यान्हे एकवादने समाजसेविभिः सह चर्चां करिष्यति, ततः 1.45 वादने भण्डारी पैलेस इत्यस्मिन् आयोजिते लोकतन्त्रसेनानिसम्मेलनकार्यक्रमे भागं ग्रहीष्यति।

केन्द्रीयमन्त्रिणः समयः द्वादशात् परं 2.45 वादनात् 3.00 वादनपर्यन्तं आरक्षितः भविष्यति। ततः सः अपराह्णे 3.00 वादने नवीन व्यापार “आध्य इंटरप्राइजेस्” उद्घाटनकार्यक्रमे, अपराह्णे 3.30 वादने ग्रामे बामनखेड़ा इत्यत्र धानकृषकैः सह चर्चायां भागं करिष्यति।ततः सः सायं 4.30 वादने इन्द्रप्रस्थकालोनीस्थं देवना अरोरा-नामकस्य गृहं, सायं 4.40 वादने सिन्धीकालोनी डण्डापुरा-प्रदेशे स्थितं सुरेशमोतियानी-नामकस्य गृहं च आगमिष्यति।शअनन्तरं सः सायं 4.50 वादने विदिशात् भोपालं प्रति प्रयाणं करिष्यति।

हिन्दुस्थान समाचार