Enter your Email Address to subscribe to our newsletters
गुवाहाटी, 12 अक्टूबरमासः (हि.स.)।भारतीयसेनायाः तत्वावधानान्तर्गत मुख्यालय ५१ सब-एरिया अधीनस्थ नारङ्गी मिलिट्री स्टेशन, गुवाहाटी स्थले रविवासरे वेटरन्स् स्वाभिमान् रैली २०२५ महोत्साहेण तथा सम्मानपूर्वक आयोजितम्। आयोजनस्यास्य उद्देश्यं — पूर्वसैनिकाणां निःस्वार्थसेवा, शौर्यं बलिदानं च श्रद्धया स्मर्तुं, तथा वीर नार्यः शहीदपरिवाराणां प्रति ऐक्यभावं व्यक्तुम्।
कार्यक्रमे असम-राज्यपालः लक्ष्मणप्रसाद आचार्यः मुख्य-अतिथि रूपेण उपस्थितः आसन्।
अस्मिन अवसरे वरिष्ठ सैन्य अधिकारी, सरकारी प्रतिनिधयः, २५०० तः अधिकाः पूर्वसैनिकाः च सम्मिलिताः — अनेन एषः कार्यक्रमः हालस्य वर्षेषु पूर्वसैनिक-सम्मेलनानां महत्तमं जातः। राज्यपाल आचार्यः स्व-संवादे उक्तवान् यत् “सैनिकाणां वीरता, समर्पणं देशभक्ति च प्रशंसनीयानि।
राष्ट्रस्य सुरक्षा-अखंडतायां तेभ्यः अमूल्य योगदानं अस्ति।
राष्ट्रः स्व वीरसैनिकानां तथा वीर नार्यः प्रति सदैव कृतज्ञः भविष्यति। यात्राकाले वीर नार्यः तथा आवश्यक-पूर्वसैनिकाः विशेष-वित्तीय-सहायता प्राप्तवन्तः।
शारीरिकदृष्ट्या अशक्ताः पूर्वसैनिकाः मोटराइज्ड्-व्हीलचेयर्, मोबिलिटी-स्कूटर्, मेडिकल्-बेड् च प्रदत्ताः।
कार्यक्रमस्थले चिकित्सा-सहायता, पेंशन्-परामर्श, वित्तीय-मार्गदर्शन, कौशल-विकास-संबद्ध-स्टॉल् अपि स्थापिता आसन्, यतः पूर्वसैनिकसमुदायस्य विविधाः आवश्यकताः पूरिताः स्युः।
कार्यक्रमे उपस्थिताः लेफ्टिनेंट् जनरल् संजय मलिक्, एस्.एम., जीओसी १०१ एरिया,मेझर् जनरल् ए.के. शर्मा, वी.एस.एम., जीओसी ५१ सब-एरिया, लेफ्टिनेंट् जनरल् आर्.पी. कलिता, पी.वी.एस.एम., यू.वाय्.एस्.एम., ए.वी.एस्.एम., एस्.एम., वी.एस्.एम. (सेवानिवृत्तः),
एयर् मार्शल् अंजन कुमार् गोगोई (सेवानिवृत्त) सहित अन्य वरिष्ठ सैन्य तथा नागरिक अधिकारी च ।
अयं कार्यक्रमः पूर्वसैनिकाणां गौरवः, सम्मानः स्वाभिमानः च पुनः सशक्तं करणीयः सिद्धः।
एतत् आयोजनम् भारतीयसेनाया पूर्वसैनिकेषु तथा तेषां परिवारेषु कल्याणाय अखंडप्रतिबद्धतां पुनः उद्घाटयति।
हिन्दुस्थान समाचार