झिरिया जलाशय योजनायै 9.78 कोटिमितो राशिः स्वीकृतः
रायपुरम्, 13 अक्टूबरमासः (हि.स.)।छत्तीसगढ-शासनस्य जलसंसाधनविभागेन बलौदाबाजार-भाटापारा-जिल्लायाः विकासखण्ड-सिमगा अन्तर्गतस्य झिरिया-जलाशय-योजनायाः कार्यार्थं ९ कोटि ७८ लाख १९ सहस्र रूप्यकाणि अनुमोदितानि सन्ति। योजनेः कार्यं सम्पन्ने सति २५० हेक्टेय
झिरिया जलाशय योजनायै 9.78 कोटिमितो राशिः स्वीकृतः


रायपुरम्, 13 अक्टूबरमासः (हि.स.)।छत्तीसगढ-शासनस्य जलसंसाधनविभागेन बलौदाबाजार-भाटापारा-जिल्लायाः विकासखण्ड-सिमगा अन्तर्गतस्य झिरिया-जलाशय-योजनायाः कार्यार्थं ९ कोटि ७८ लाख १९ सहस्र रूप्यकाणि अनुमोदितानि सन्ति।

योजनेः कार्यं सम्पन्ने सति २५० हेक्टेयर-प्रदेशे खरीफ-फसलीनां सिंचनसुविधा उपलब्धा भविष्यति।

जलसंसाधनविभागेन, मंत्रालये महानदीभवने स्थितात्, अस्य जलाशय-योजनायाः कार्यनिष्पादनार्थं सोमवासरे मुख्य-अभियन्त्रे, महानदी-गोदावरी-कच्छ-जलसंसाधनविभाग-रायपुर इत्यस्मै प्रशासकीय-अनुमोदनम् प्रदत्तम्।

---------------

हिन्दुस्थान समाचार