मुख्यमंत्री सरमा केंद्रीय राज्य मंत्रिणे पबित्र मार्घेरिटावर्याय अददात् जन्मदिनस्य शुभकामनाः
गुवाहाटी, 13 अक्टूबरमासः (हि.स.)।असमराज्यस्य मुख्यमन्त्री डॉ. हिमन्तबिस्वसरमा महोदयः केन्द्रीयराज्यमन्त्रिणं पवित्रमार्घेरिटां तस्य जन्मदिने हार्दिकं शुभाशंसनं कृतवान्। मुख्यमन्त्रिणा उक्तं यत् — पवित्रमार्घेरिटा असमस्य समृद्धसंस्कृतिविरासतस्य महा
मुख्यमंत्री डॉ हिमंत बिस्व सरमा द्वारा साझा तस्वीर।


गुवाहाटी, 13 अक्टूबरमासः (हि.स.)।असमराज्यस्य मुख्यमन्त्री डॉ. हिमन्तबिस्वसरमा महोदयः केन्द्रीयराज्यमन्त्रिणं पवित्रमार्घेरिटां तस्य जन्मदिने हार्दिकं शुभाशंसनं कृतवान्।

मुख्यमन्त्रिणा उक्तं यत् — पवित्रमार्घेरिटा असमस्य समृद्धसंस्कृतिविरासतस्य महान् समर्थकः अस्ति। सः न केवलं भारतस्य संदेशं विश्वभरि प्रसारयति, अपितु असमराज्यस्य पारम्परिकवस्त्राणां संस्कृत्याश्च प्रचारप्रसाराय निरन्तरं कार्यं करोति।

तेन मातरं कामाख्यां महापुरुषं च श्रीमन्तशंकरदेवं प्रति मन्त्रिणः मार्घेरिटायाः दीर्घं स्वस्थं च जीवनं याचितम्।

भारतीयजनतापक्षस्य सदस्यरूपेण मार्घेरिटा 2022 वर्षात् राज्यसभायाः सांसदरूपेण असमराज्यस्य प्रतिनिधित्वं करोति। सः 2014 तमे वर्षे राजनितौ प्रविष्टः सन् भारतीयजनतापक्षस्य सक्रियसदस्यः अभवत्।

सः 2014 तः असमभारतीयजनतापक्षस्य प्रवक्तारूपेण कर्तव्यं निर्वहत्। असमभारतीयजनतापक्षस्य सामाजिकमाध्यमविभागस्य प्रभारी, कामरूपउत्तरजिलाभारतीयजनतापक्षस्य जिला-प्रभारी च अभवत्।

सः 2017 तः 2021 पर्यन्तं ज्योतिचित्रबनम् इति असमसर्वकारसंस्थायाः अध्यक्षरूपेण अपि कार्यं कृतवान्।

सः नवेम्बर् 2021 तः मार्च् 2022 पर्यन्तं असमसर्वकारस्य छात्रयुवकल्याणार्थं राज्यस्तरीयपरामर्शसमितेः सदस्यसचिवरूपेण अपि कार्यं कृतवान्।

वर्तमानकाले सः सूचनाप्रसारणमन्त्रालयस्य परामर्शसमितेः सदस्यः अस्ति।

पवित्रमार्घेरिटा तृतीयमोदीमन्त्रिमण्डले कैबिनेट्-राज्यमन्त्रिरूपेण शपथं गृहीत्वा विदेशमन्त्रालये च वस्त्रमन्त्रालये च राज्यमन्त्रिरूपेण

कार्यरतः अस्ति।

हिन्दुस्थान समाचार