सुलतानपुरस्य बिजेथुआ महोत्सवः - मुख्यमंत्रिणा योगिना सहितेभ्यः शीर्ष नेतृभ्यः प्रेषितम् आमंत्रणम्
सुलतानपुरम्, 13 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशस्य सुलतानपुरजिलायाः कादीपुरतहसीलक्षेत्रे स्थिते सूरापुरनामके स्थले बिजेथुआमहावीरधामे नवदिवसीयः “बिजेथुआ-महोत्सवः” प्रवर्तमानः अस्ति। अस्मिन् महोत्सवे जगद्गुरुः रामभद्राचार्यः वाल्मीकि-रामायणकथां संगी
योगी से मुलाकात


सुलतानपुरम्, 13 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशस्य सुलतानपुरजिलायाः कादीपुरतहसीलक्षेत्रे स्थिते सूरापुरनामके स्थले बिजेथुआमहावीरधामे नवदिवसीयः “बिजेथुआ-महोत्सवः” प्रवर्तमानः अस्ति।

अस्मिन् महोत्सवे जगद्गुरुः रामभद्राचार्यः वाल्मीकि-रामायणकथां संगीतमयेन रूपेण पठन्ति।

कथाश्रवणाय कादीपुरक्षेत्रात् सह जौनपुर, प्रतापगढ तथा अम्बेडकरनगर इत्येभ्यः समीपजनपदेभ्यः सहस्रशः श्रद्धालवः आगच्छन्ति।

क्षेत्रीयविधायकः राजेशगौतमः महोत्सवम् उपस्ठातुम् मुख्यमन्त्रिणं योगी आदित्यनाथम् निमन्त्रणपत्रं दत्वा आमन्त्रितवान्।

तथा उपमुख्यमन्त्री बृजेशपाठकः एवं पर्यटन-संस्कृतिमन्त्री जयवीरसिंहः अपि आमन्त्रिताः सन्ति।

विधायकः गौतमः उक्तवान् यत् —

“बिजेथुआ-महोत्सवः केवलं धार्मिकः आयोजनः नास्ति, अपितु सः अस्य प्रदेशस्य सांस्कृतिक-परम्परायाः, आध्यात्मिक-चेतनायाः च प्रतीकः तथा पर्यटनविकासस्य आधारः अपि अस्ति।”

महोत्सवे स्थानीयजनानां सहभागिता, सेवाभावः तथा श्रद्धा इत्येतानि अद्भुतरूपेण दृष्टानि।

आयोजकानुसारं, एतेषां आयोजनानां द्वारा स्थानीयसंस्कृतिः जीवन्ता भवति, अर्थव्यवस्था च सामाजिकैकता च दृढीभवतः।

अद्य आयोजिते कार्यक्रमे भारतीयजनतापक्षस्य राष्ट्रियप्रवक्ताः श्रीः प्रेमशुक्लः अपि आगत्य श्रीरामभद्राचार्यात् आशीर्वादं प्राप्तवान् तथा कथायाः आनन्दं अनुभूतवान्।

अत्र निःशुल्क-स्वास्थ्यशिविरः अपि आयोजितः अस्ति।

प्रतिदिनं शतशः रोगिणां नेत्रपरिक्षा क्रियते, तेषां च चश्मान् निःशुल्कं वितर्यन्ते।

हिन्दुस्थान समाचार