मध्‍यप्रदे‍शस्य मुख्यमन्त्री अद्य एम्एस्‌एम्एई इकाइभ्यः 200 कोट्यधिकरूप्यकाणाम् अनुदानराशिम् प्रदास्यति
उद्योगेभ्यः भूम्याः आवंटनपत्राणि, उद्यमक्रान्तियोजनान्तर्गतानां युवानां च ऋणवितरणं भविष्यति। भोपालम् 13 अक्टुबरमासः (हि.स.) मध्‍यप्रदे‍शराज्‍यस्य मुख्‍यमन्‍त्री डॉ‍. मोहनयादवः अद्य सोमवासरे भोपालनगरस्थे ताज्‌ फ्रण्ट्‌ होटेल्‌ इति स्थाने आयोजिते सू
सीएम मोहन यादव (फाइल फोटो)


उद्योगेभ्यः भूम्याः आवंटनपत्राणि, उद्यमक्रान्तियोजनान्तर्गतानां युवानां च ऋणवितरणं भविष्यति।

भोपालम् 13 अक्टुबरमासः (हि.स.) मध्‍यप्रदे‍शराज्‍यस्य मुख्‍यमन्‍त्री डॉ‍. मोहनयादवः अद्य सोमवासरे भोपालनगरस्थे ताज्‌ फ्रण्ट्‌ होटेल्‌ इति स्थाने आयोजिते सूक्ष्मलघुमध्यमोद्यम (एम्एस्‌एम्एई) सम्मेलन-2025 इत्यस्मिन् कार्यक्रमे, राज्यस्य 48 अधिकजनपदेषु स्थितानां 700 अधिकानां एम्एस्‌एम्एई इकाइषु एककसंगणकक्लिक्-माध्यमेन 200 कोट्यधिकरूप्यकाणाम् अनुदानराशिम् अन्तरयिष्यति। तथैव स्टार्टअप्‌ नीति-2025 अन्तर्गतं प्रदेशस्य 80 अधिक स्टार्टअप्‌ उद्यमानामेककोट्यधिकरूप्यकाणां सहायता-राशेः वितरणम् अपि करिष्यति।

जनसम्पर्क-अधिकारी राजेश्‌ बैन इत्यनेन सूचितं यत्‌ एतत्‌ सम्मेलनं एम्एस्‌एम्एई-विकासं स्टार्टअप्‌-पर्यावरणं च दृढीकर्तुम् उद्दिश्य आयोज्यते। सम्मेलनं 1:30 वादने आरभिष्यते, यस्मिन् सूक्ष्मलघुमध्यमउद्यममन्त्री चेतन्यकाश्यपः विशेषरूपेण उपस्थितः भविष्यति। तस्मिन् कालखण्डे “स्टार्टअप्‌” तथा “निर्यातप्रोत्साहनम्” इति विषययोः द्वौ परिसंवादसत्रौ भविष्यतः। मुख्यमन्त्री डॉ‍. यादवः बालाघाट्-टीकमगढ़योः उद्यमिभिः उद्योगसंघैः च वर्चुअल-माध्यमेन संवादं करिष्यति। उद्योगनीतिनिवेशप्रोत्साहनविभागस्य प्रमुखसचिवः राघवेन्द्रकुमारसिंहः अपि तत्र भविष्यति।

औद्योगिकभूम्याः आशयपत्रं उद्यमक्रान्तेः ऋणवितरणं चमुख्यमन्त्री डॉ‍. यादवः एम्एस्‌एम्एई-विभागाधीन-औद्योगिकक्षेत्रेषु विभिन्नेषु उद्यमेषु 200 अधिकानां भूखण्डानाम्‌ आवंटनस्य आशयपत्राणि वितरिष्यति। सः ₹113.78 कोटिरूप्यकव्ययेन 03 नव-औद्योगिकक्षेत्राणां वर्चुअली शिलान्यासं करिष्यति। तदनु सेवा-पखवाड-सप्ताहान्तर्गतं अभियानं चाल्यते, यस्य अन्तर्गते मुख्यमन्त्री उद्यमक्रान्तियोजनानुसारं 350 अधिकहितग्राहिणः ऋणरूपेण लाभं प्राप्तवन्तः सन्ति। कार्यक्रमे 100 अधिकहितग्राहिभ्यः प्रत्यक्षं हितलाभवितरणं अपि भविष्यति।

सम्मेलने सूक्ष्मलघुमध्यमउद्यमविभागस्य ओएनडीसी-संस्थयोः मध्ये परामर्श-ज्ञापनस्य (MoU) हस्ताक्षरः भविष्यति। 7.57 कोटिरूप्यकव्ययेन त्रयाणां नवीनकार्यालयभवनानां शिलान्यासः क्रीयते । विभागस्य एम्एस्‌एम्एई तथा स्टार्टअप्‌-क्रियाकलापानाम् अन्तर्गतं उद्यमिनः स्टार्टअप्‌-संस्थापकाः च स्वानुभवान्‌ अपि परामर्शं करिष्यन्ति। सायंकाले विशेषतया स्वदेश्यं स्वावलम्बनं च विषययोरुपरि विशेषपरिचर्चासत्रं भविष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता