Enter your Email Address to subscribe to our newsletters
रायपुरम्, 13 अक्टूबरमासः (हि.स.)।छत्तीसगढ़स्य दक्षिणभागे अर्थात् बस्तरसंभागे आगामिपञ्चदिनेषु लघुतर-मध्यमानवर्षायाः सम्भावना अस्ति। एतस्मिन्नेव काले राज्यस्य मध्य-उत्तरभागेभ्यः वर्षारुतोऽपि शीघ्रमेव प्रस्थानं सम्भाव्यते, यतः तस्मै अनुकूलं मौसमं सम्प्रति जातम्। मौसमविभागेन सोमवासरे अपि कस्यापि जनपदस्य कृते विशेषसचेतनसूचना न प्रदत्ता, यतस्ततः सम्पूर्णे प्रदेशे सामान्यं वातावरणं भविष्यतीति अपेक्षा अस्ति।
राज्यस्य विविधानि स्थलेषु गतचतुर्विंशतिघण्टाभ्यन्तरे लघुतर-मध्यमानवर्षा अभिलिखिता। नानगुरे 4 से.मी., अकलतरायां पिपरियायां च 3–3 से.मी., पथरियायां, धनोरायां, मुंगेल्यां, छुरायां, कुमरदायां, चारामायां, महासमुन्दे, सरायपाल्यां, कांकेरे, नांदघाटे, बागबाहरायां, कुण्डायां, भटगावं, सुकमायां, बसनायां, बडेराजपुरे, मालखरौडायां च 2–2 से.मी. वर्षा प्राप्ता। बिलासपुरे, नगऱ्यां, पिथौरायां, नवागढे, छुईखदाने, देवभोगे, सूरजपुरे, पल्लार्यां, जांजगीरे, लालपुरथाने, नेरहरपुरे, सकर्यां, साल्हेवारायां, गण्डैयां, पामगढे, खैरागढे, सोनहते, लवने, केल्हार्यां च 1–1 से.मी. वर्षा अभिलिखिता।
वातावरणवैज्ञानिकः एच्. पी. चन्द्रः उक्तवान् यत् स्थानीयप्रभावेन प्रदेशस्य कतिपये स्थले लघुवर्षा वा मेघगर्जनसहितं छिटकानां सम्भावना अस्ति। तेन एव उक्तं यत् आगामिदिनेषु निम्नतमतापमानस्य ह्रासः दृष्टुं शक्यते।
रायपुरे आगामचतुर्विंशतिघण्टासु आकाशः अंशतः मेघाच्छन्नः भविष्यति। नगरे मेघगर्जनसहितं लघुवर्षा सम्भवति। अधिकतमतापमानं 31 डिग्री सेल्सियस्, न्यूनतमतापमानं 21 डिग्री सेल्सियस् भविष्यतीति अनुमानितम्।
हिन्दुस्थान समाचार