सहसा आवृत्तः , पुनः सर्वं समाप्तं…— समक्षम् आगतं पुलिसदलाय दत्तं दुर्गापुरपीड़ितायाः पत्रं, उपस्थापिता बर्बरता
कोलकाता, 13 अक्टूबरमासः (हि. स.)।दुर्गापुरनगरे वैद्यकविद्यायाः छात्रायाः सह जातं सामूहिकदुष्कर्मकाण्डं प्रति पीडितायाः संक्षिप्तं किन्तु सटीकं विधानं तस्याः अनुभूतं अत्याचारं स्पष्टं करोति। सा या अधिकृतरूपेण पुलिसे निवेदनपत्रं दत्तवती, तत् “हिन्दुस
मैहर: गैंगरेप कांड का फरार आरोपी मनोज सिंह गौड़ गिरफ्तार


कोलकाता, 13 अक्टूबरमासः (हि. स.)।दुर्गापुरनगरे वैद्यकविद्यायाः छात्रायाः सह जातं सामूहिकदुष्कर्मकाण्डं प्रति पीडितायाः संक्षिप्तं किन्तु सटीकं विधानं तस्याः अनुभूतं अत्याचारं स्पष्टं करोति। सा या अधिकृतरूपेण पुलिसे निवेदनपत्रं दत्तवती, तत् “हिन्दुस्थानसमाचार” इत्यस्मै प्राप्तम्। तस्मिन् पत्रे सा एवमवदत् यत्“अहं मम मित्रेण सह परिसरात् बहिः विहरणं कुर्वन्ती आसं। तदा आकस्मिकतया केचन जनाः आगत्य अस्मान् परिवृत्य मम सह बलात्कृतवन्तः।”पीडिता अपि उक्तवती यत् बहवः जनाः संयुक्त्य तस्याः प्रति दुष्कर्मं कृतवन्तः, तस्याः पुरुषमित्रं तु ताडयित्वा तस्मात् स्थालात् निष्कास्य च।

अस्य लघुविधानस्य मध्ये एव तस्याः भयावहायाः रात्रेः सम्पूर्णकथा निहिता अस्ति। पुलिसाधिकृताः उक्तवन्तः यत् तस्याः उक्तिवाक्यानि एव आधारं कृत्वा अपराधस्य पंजीकरणं जातम्, अन्वेषणदिशा च निश्चिताभवत्। उक्तेभ्यः स्पष्टं भवति यत् घटना न योजनाबद्धा, किन्तु अवसरलाभेन कृतं क्रूरतमं कर्म आसीत्।

सूत्राणि वदन्ति यत् परिसरात् सप्तशतमीटरपर्यन्ते घनेषु कुंजेषु समीपे एषा घटना अभवत्, यत्र चिरकालं मादकद्रव्यभोजनस्थलं सक्रियं आसीत्। अपराधिनः प्रथमं छात्रां तस्य च मित्रं दृष्टवन्तः, अनन्तरं तौ अवरोध्य दुर्वचनानि उक्तवन्तः। विरोधे कृतमित्रं ताडयित्वा भगितवन्तः, छात्रां तु बलात् वनान्तं नीत्वा तत्र सामूहिकदुष्कर्मं कृतवन्तः।पीडिता उक्तवती — “ते न केवलं मम प्रति अमानुषं अत्याचारं कृतवन्तः, अपि तु मम दूरभाषयन्त्रं च बैगात् पञ्चसहस्ररूप्यकाणि च अपहृतवन्तः।”घटनानन्तरं सा कथञ्चित् महाविद्यालयं प्रत्यागत्य सर्वं अधिकृतान् अवदत्, ततः पुलिसे सूचना दत्ता।अन्वेषणकर्तारः उक्तवन्तः यत् तस्याः निवेदनानन्तरमेव नशास्थले छापामार्जनं कृतम्। तत्र लब्धाः किञ्चन संदिग्धाः तस्याः मित्रेण परिचालिताः, तेषां मध्ये त्रयः गिरप्ताः — शेख रियाजुद्दीन, अपू बौरी, फिरदौस शेख इति।पुलिसदलेन अपि उक्तं यत् तस्याः दूरभाषयन्त्रं तेषां एव आरोपितानां निकटे लब्धम्, यस्य लोकेशनट्रैकिंगेन गिरप्तिः साधिता।अधुना त्रयः आरोपिताः पुलिसगृहे एव सन्ति, द्वौ अन्यौ संदिग्धौ अन्वेष्ये स्तः।एषा घटना राज्ये नारीसुरक्षायाः विषये गम्भीरं चिन्तनं उत्पादितवती। मुख्यमंत्री ममता बनर्जी उक्तवती यत् दुर्गापुरघटनायां कोऽपि दण्डाद् मोक्षं न प्राप्स्यति। राष्ट्रीयनारीआयोगः अपि अस्मिन्मामले गम्भीरतां दर्शयित्वा शीघ्रन्यायस्य आग्रहं कृतवान्।

हिन्दुस्थान समाचार