Enter your Email Address to subscribe to our newsletters
गुवाहाटी, 13 अक्टूबरमासः (हि.स.)।उपभोक्तृस्वास्थ्यस्य संरक्षणं खाद्यव्यवसाये च निष्पक्षतायाः संवर्धनं कर्तुं उद्दिश्य असमराज्यपालः लक्ष्मणप्रसादाचार्यः अद्य गुवाहाट्यां आयोजिते कोडेक्स् समितिः ऑन् स्पाइसेस् एण्ड् क्यूलिनरी हर्ब्स इति अष्टमे अधिवेशने शुभारम्भं कृतवान्।
राज्यपालेन उक्तं यत् भारतस्य मसालानां उत्पादनं व्यापारश्च गौरवपूर्णं इतिहासं वहतः। प्रधानमन्त्रिणः नरेन्द्रमोदिना नेतृत्वे भारतः अधुना १९५ देशेभ्यः मसालान् निर्यातयति, येन वर्षे २०२४–२५ तमे लगभग चत्वारिंशत् सहस्रकोटि रूप्यकाणां राजस्वं प्राप्तम्।
तेन उक्तं यत् असमप्रदेशः पूर्वोत्तरभारते च सजीव (ऑर्गैनिक्) उच्चगुणवत्तासम्पन्नानां मसालानाम् केन्द्रं भवति। कार्बीआंगलोंग-अदरकं, लखादोंग-हरिद्रा, भूत-जोलोकिया-मरिचं च इति GI-टैग प्राप्तानि उत्पादानि अस्य प्रदेशस्य विशेषता भवन्ति।
राज्यपालाचार्येण उक्तं यत्असमप्रदेशे तादृशी क्षमता अस्ति या देशस्य विश्वस्य च कृते उच्चगुणवत्तायुक्तानां हर्ब् (औषधीयपादपानां) स्पाइसेस् च आपूर्तिं कर्तुं शक्यते।
तेन “एकजिलाः, एकः उत्पादः” (One District, One Product) इति योजनेः प्रशंसा कृता तथा उक्तं यत् कोडेक्स् समिति किसानानां वैज्ञानिकानां च मध्ये सेतुकार्यं करोति।
अस्मिन् कार्यक्रमे एफएसएसएआई-स्य CEO रजित पुनानी, डॉ. एम.आर. सुबदर्शनः, स्पाइसेस् बोर्डस्य सचिवा पी. हेमलथा, तथा कोडेक्स् सचिवालयस्य डॉ. हिल्डे क्रूसे इत्यादयः अनेकदेशीयप्रतिनिधयः उपस्थिताः आसन्।
हिन्दुस्थान समाचार