रायपुरम् : अंताराष्ट्रिय योग कार्यशालायाः रायपुरेऽद्य भव्यम् आयोजनम्
रायपुरम्, 13 अक्टूबरमासः (हि.स.)। छत्तीसगढ़राजधानीस्थे रायपुरनगरस्य नव रायपुरप्रदेशे श्रीदावडाविश्वविद्यालयेन छत्तीसगढ़योगआयोगस्य च संयुक्ततत्वावधाननेन एकदिवसीयम् अन्ताराष्ट्रिययोगकार्यशाला भव्यरूपेण आयोजिता भविष्यति। अयं कार्यक्रमः अद्य सोमवारे क
रायपुरम् : अंताराष्ट्रिय योग कार्यशालायाः रायपुरेऽद्य भव्यम् आयोजनम्


रायपुरम्, 13 अक्टूबरमासः (हि.स.)। छत्तीसगढ़राजधानीस्थे रायपुरनगरस्य नव रायपुरप्रदेशे श्रीदावडाविश्वविद्यालयेन छत्तीसगढ़योगआयोगस्य च संयुक्ततत्वावधाननेन एकदिवसीयम् अन्ताराष्ट्रिययोगकार्यशाला भव्यरूपेण आयोजिता भविष्यति। अयं कार्यक्रमः अद्य सोमवारे कन्वेन्शनहॉल्, न्यू सर्किट् हाउस्, सिविल् लाइन्, रायपुरे संपन्नः भविष्यति। अस्मिन् कार्यशाले देश-विदेशयोः प्रसिद्धयोगविशेषज्ञाः स्वानुभवान्, स्वशोधनिर्णयान्, योगस्य वैज्ञानिकपक्षांश्च प्रतिभागिभ्यः प्रदर्शयन्तः मार्गदर्शनं करिष्यन्ति।

मुख्यअतिथिरूपेण विशिष्टवक्तारः च — अरविन्दः साहू (अन्ताराष्ट्रियवक्ता, यूनाइटेड् किङ्ग्डम्), प्रोफेसर् भगवंतसिंहः (सेवानिवृत्ताचार्यः एवं दर्शनयोगविभागाध्यक्षः, पण्डितरविशङ्करशुक्लविश्वविद्यालयः, रायपुर), प्रोफेसर् मृत्युंजयराठौरः (विभागाध्यक्षः, शरीरक्रियाविज्ञानविभागः, एम्स् रायपुर), अमितयादवः (सहायकाचार्यः, ग्वालियरविश्वविद्यालयः), सवितादीदी (प्रधाना, ब्रह्माकुमारीसंस्थानम्, रायपुर) तथा तेजस्वीशर्मा (अन्ताराष्ट्रिययोगचैम्पियन् एवं सर्वोच्चन्यायालयस्य अधिवक्ता) उपस्थिताः भविष्यन्ति।

कार्यशालायां प्रतिभागिभ्यः योगकिट्, प्रमाणपत्रं, भोजनव्यवस्था च प्रदास्यते। कार्यक्रमस्य अवधौ उत्कृष्टशोधनिबन्धं प्रस्तुतवन्तः प्रतिभागिनः विशेषपुरस्कारैः सम्मानिता भविष्यन्ति, तथा योगक्षेत्रे उल्लेखनीयं योगदानं कृतवन्तः एकविंशतिविभूतयः सन्मानं प्राप्स्यन्ति।

विश्वविद्यालयप्रशासनं योगआयोगश्च प्रदेशस्थेषु सर्वेषु शिक्षणसंस्थानेषु, योगशिक्षकेषु, योगप्रेमिषु च आह्वानं कृत्वा एतदन्तराष्ट्रिययोगायोजनं उत्साहपूर्वकं सफलं कर्तुं निवेदयतः।

---------------

हिन्दुस्थान समाचार