Enter your Email Address to subscribe to our newsletters
बिलासपुरम्, 13 अक्टूबरमासः (हि.स.)।
हिमाचलप्रदेशस्य समृद्धा पर्वतीयभाषा सांस्कृतिकधरोहरस्य च संरक्षणं संवर्धनं च कर्तुं जिल्हा-बिलासपुरस्थितेन भाषा-संस्कृति विभागेन १ नवम्बरात् ७ नवम्बरपर्यन्तं “पहाड़ी दिवस सप्ताहः” इत्यस्य आयोजनं क्रियते।
एषः उत्सवः राज्यस्य पारम्परिकभाषाणां, लोकपरम्पराणां, सांस्कृतिकमूल्यानां च नवयुवत्प्रजायै संवेदनार्थं प्रतिवर्षं आयोज्यते।
अस्य सप्ताहस्य अन्तर्गतं ६ नवम्बरदिनाङ्के जिल्हायाः कक्षा +१ तथा +२ विद्यार्थिनां कृते भाषण, निबन्धलेखन, लोकोक्ति-मुहावरे-लेखनं तथा पहेलिका-लेखनम् इत्यादीनि प्रतियोगिताः आयोजिताः भविष्यन्ति।
एताभिः क्रियाभिः विद्यार्थिनां मध्ये स्वमातृभाषायां रुचिः, तथा स्वसंस्कृतिक-परिचये आत्मीयभावः संवर्धयितुं प्रयोजनम्।
भाषणप्रतियोगितायां प्रतिभागिभिः “पहाड़ी भाषायाः संवर्द्धकाः हिमाचली बोल्यः” इत्यस्मिन् विषयेस्थ ३–५ निमेषपर्यन्तं मौखिकं प्रस्तुतीकरणम् करणीयं, यत्र लिखितसामग्रीनां उपयोगः वर्जितः भविष्यति।
निबन्धलेखनप्रतियोगितायां प्रतिभागिनः “जिल्हायाः पारम्परिकवस्त्राणि आभूषणानि वा” अथवा “जिल्हायां प्रचलिताः पारम्परिकोत्सवाः” इत्येकस्मिन् विषयेस्थ ३००–५०० शब्दपरिमितं निबन्धं लिखिष्यन्ति; अस्य लेखनार्थं १ घण्टा ३० निमेषाः समयः निर्दिष्टः अस्ति।
लोकोक्ति-मुहावरे लेखनप्रतियोगितायाम् प्रतिभागिभिः बिलासपुरीभाषायाः पारम्परिका लोकोक्तयः मुहावरे च तेषां हिन्द्यर्थैः सह प्रस्तुतव्याः; अस्य लेखनार्थं १ घण्टः समयः दत्तः।
पहेलिका-लेखनप्रतियोगितायाम् अपि बिलासपुरीभाषायां पारम्परिकाः ठेठ पहेलिकाः तेषां उत्तरैः सह लिखनीया, यस्य समयः अपि १ घण्टः निर्दिष्टः।
प्रत्येकात् विद्यालयात् सर्वासु चतसृषु प्रतियोगितासु एकः-एकः छात्रः अथवा छात्रा प्रविष्टिः आमन्त्रितः अस्ति।
इच्छुकानि विद्यालयानि २५ अक्तूबर २०२५ पर्यन्तं प्रतिभागिनां विवरणं विभागस्य ईमेल्-पते dlo.blp.hp@gmail.com, अथवा व्हाट्सएप्-सङ्ख्यायाम् 70184-31670 / 98173-03875, अथवा विभागीयकार्यालये सायं ५ वादनात् पूर्वं प्रेषयितुं शक्नुवन्ति।
निर्दिष्टतिथेः अनन्तरं प्रविष्टयः स्वीकार्याः न भविष्यन्ति।
अस्मिन् अवसरः जिला-भाषा-अधिकारी नीलम् चन्देल उक्तवान् पहाड़ी-दिवस-सप्ताहः केवलं प्रतियोगिता नास्ति, अपि तु सांस्कृतिक-पुनर्जागरणस्य प्रेरणादायिनी एकः प्रयासः। अस्माकं प्रयत्नः अस्ति यत् विद्यार्थिनः स्वजनेभ्यः, स्वमूलात् च सम्बद्धाः भवेरन्, यतस्ते स्वमातृभाषायां परम्परासु च सांस्कृतिकविरासतायां च गौरवं अनुभवेयुः।
प्रतियोगितायां उत्कृष्टप्रदर्शनं कुर्वन्तः प्रतिभागिनः जिला-स्तरे सम्मानिताः भविष्यन्ति।
---------------
हिन्दुस्थान समाचार